This page has not been fully proofread.

१५२
 
दशकुमारचरितम् ।
 
[ तृतीयः
 
स्त्वमसि मदंशः । शंकरजटाभारलालनोचिता सुरसरिदसौ वर-
वर्णिनी । सो च कदाचिन्मद्विलोडनासहिष्णुर्मामशपत्– 'एहि
मर्त्यत्वम्' इति । अशष्यत मया च – 'यथेह बहुभोग्या तथा
प्राप्यापि मानुष्यकमनेकसाधारणी भव' इति । अभ्यर्थितश्चा-
नया – 'एकपूर्वा पुनस्त्वामेवोपचर्य यावज्जीवं रमेयम्' इति ।
तदयमर्थो भव्य एव भवता निराशयः' इति । प्रतिबुध्य च
प्रीतियुक्तस्तदहरपि प्रियासंकेतव्यतिकरादिस्मरणेनाहमनैषम् ।
 
अन्येयुरनन्यथावृत्तिरनङ्गो मय्येवेषुवर्षमवर्षत् । अशुष्यच्च
ज्योतिष्मतः प्रभामयं सरः । प्रासरञ्च तिमिरमयः कर्दमः ।
पदचन्द्रिका ।
 
सैवासौ कल्पसुन्दरी । वरवर्णिनी । 'उत्तमा वरवर्णिनी' इत्यमरः । सा गङ्गा
मद्विलोडनं मत्खेलनं तदसहिष्णुस्तदसहनशीला । मर्त्यत्वं मनुष्यत्वम् । यथा येन
प्रकारेण । इह बहुभोग्या गङ्गालेन । तथा तेनैव प्रकारेण । मानुष्यकं मनुष्यश-
रीरम् । अनेकसाधारणी बहुभोग्या भवेति । अभ्यर्थितः प्रार्थितः । अनया गङ्गया ।
एक: पूर्व यस्या इति तथा । त्वां द्वितीयम् । उपचर्य संसेव्य । यावज्जीवं देहप-
र्यन्तम् । रमेयं क्रीडां करोमि । तद्यमिति । अयमर्थः कल्पसुन्दरीभोगरूपः ।
भव्य एव कुशल एव । निराशयः । नाशङ्कनीय इत्यर्थः । प्रतिबुध्य ज्ञात्वा ।
तदहः तद्दिनम् । अनैषमगमयम् ।
 
CH
 
अन्येधुरिति परदिवसे । अनन्यथावृत्तिर्मदेकवृत्तिः । अनङ्गो मदनः
इषुवर्षमिषून्वर्षयित्वेति तथा । णमुल् । अवर्षत् । ववर्षेत्यर्थः । अनुष्यत् ।
शोषं प्रापेत्यर्थः । ज्योतिष्मतः सूर्यस्य । प्रभामयं दीप्तिरूपं सरः । ताद्रूप्ये
मयटू । प्रासरत् । प्रसरति स्मेत्यर्थः । तिमिरमयोऽन्धकारमयः । कर्दमः
 
पाठा०-१ 'मज्जटा'. २ 'तां च कदाचिनजाननो जलक्रीडां कुर्वन्नतिव्य-
गाइत । सा च सपत्नीतनयविहितां विलोडनामसहमाना तमशपत्'. ३ 'सो-
ऽप्य हेतुकशापप्रदानात्क्रुद्धस्तामशपत्'. ४ 'ततस्तेन प्रतिशता सा विलक्षेत्र मामु-
पसृत्य सगद्गदमगदत् - 'स्वामिन्, अहमनवरतभवञ्चरणवरिवस्याविधायिनी
न शापार्हां' इति । तदाकर्ण्य कृपाक्रान्तमनसा मयोक्तम्– 'प्रिये, नांस्य
शापोऽन्यथा भवितुमर्हति । परं त्वदनुग्रहार्थमहमात्मनोंऽशं द्विधा विभज्य
विकटवर्मनृपरूपेण मिथिलापतिप्रहारवर्मात्मजोपहारवर्मात्मना च मर्त्यलोकेऽव-
तरिष्यामि । त्वं च कामरूपाधिपतेः कलिङ्गवर्मनाम्नः कन्या कल्पसुन्दरी नाम
भूत्वा ज्यायसा मदंशेन विकटवर्मणा प्रथममल्पीयांसमनेहसं संगता तस्मि:
विकटवर्मणि मम्मूदेव लयमुपगते पुनरुपहारवर्मात्मकं कनीयांसं मदंशमु-
पलभ्य तेन साकं विविधसुखोपभोगमनुभविष्यसि । तदयमर्भः.