2023-09-05 10:21:10 by Lakshmainarayana achar
This page has been fully proofread twice.
[^१]परिग्रहश्लाघिनि ग्रहाग्रेसरे क्षपाकरे, कल्पसुन्दरीवदनपुण्डरीकेणेव मद्दर्शनातिरागप्रथमोपनतेन स्मयमानेन चन्द्रमण्डलेन संधुक्षमाणतेजसि भुवनविजिगीषोद्यते देवे कुसुमधन्वनि, यथोचितं शयनीयमभजे । व्यचीचरं च–'सिद्धप्राय एवायमर्थः । किंतु परकलत्रलङ्घनाद्धर्मपीडा भवेत्, साप्यर्थकामयोर्द्वयोरुपलम्भे शास्त्रकारैरनुमतैवेति । गुरुजनबन्धमोक्षोपाय [^२]संधिना मया चैष व्यतिक्रमः कृतः, तदपि पापं निर्हत्य कियत्यापि [^३]धर्मकलया मां [^४]समग्रयेदिति । अपि त्वेतदाकर्ण्य देवो राजवाहनः
सुहृदो वा किं नु वक्ष्यन्ति' इति चिन्तापराधीन एव निद्रया
परामृश्ये । [^५]अदृश्यत च स्वप्ने हस्तिवक्त्रो भगवान् । आह
स्म च – 'सौम्य उपहारवर्मन्, मा स्म ते दुर्विकल्पो भूत् । यत-
पदचन्द्रिका ।
कमिवाचार्यभावम् । 'मन्त्रव्याख्याकृदाचार्यः' इत्यमरः । इवशब्दोऽत्रोत्प्रेक्षायाम् । गुरुपरिग्रहो गुरुपत्न्यभिलाषस्तच्छ्ला- घिनि श्लाघतेऽसौ तथा तस्मिन् । ग्रहाग्रेसरे ग्रहमुख्ये । क्षपाकरे चन्द्रे । 'नक्षत्रेशः क्षपाकरः' इत्यमरः । कल्पसुन्दर्या राज-
पत्न्याः वदनपुण्डरीकं मुखकमलम् । मद्दर्शनातिरागो मद्दर्शनेच्छा तेन प्रथमोपनतेन प्रागेव प्राप्तेन । संधुक्षमाणतेजसि प्रवृद्धतेजसि । भुवनविजिगीषा जगद्विजेतुमिच्छा तत्रोद्यते । कुसुमधन्वनि मदने । यथोचितं यथायोग्यम् । शयनीयं शय्याम् । अभजेऽधिष्ठितवान् । क्रियाबलादहमिति पदमध्याहार्यम् । व्यचीचरं चेति । सिद्धप्राय ईषन्न्यूनः सिद्धः । किंत्विति । परकलत्रलङ्घनं परस्त्रीगमनम् । धर्मपीडा धर्मनाशः । सापि धर्मपीडा । अर्थकामयोरुपलम्भे प्राप्तौ । शास्त्रकारैर्मन्वादिभिः । अनुमतैवानिषिद्धैव । गुरुजनस्य पितृलोकस्य । मोक्षोपायो मोचनोद्योगस्तत्संधिना । संधिः साधकता । व्यतिक्रमो धर्मनाशरूपः । तदपि पापम् । समग्रयेत् संपूर्णं करिष्यति । अपि त्विति । एतत्कर्म । आकर्ण्य श्रुत्या देवो राजवाहनः । सुहृदोऽन्ये । किं नु वक्ष्यन्ति किं नु निन्दां कुर्वन्तीति
अदृश्यतेति । हस्तिवक्त्रो गजाननः । दुर्विकल्पो दुर्विचारः । सुरसरिद्गङ्गा
भूषणा ।
'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । धर्मपीडा धर्मबाधा । अभिसंधिरुद्योगः । 'अभिसंधिः समुद्योगः' इति भागुरिः । दुर्विकल्पो दुर्विचारः।
[^१]G. 'परिग्रहग्रहण'.
[^२]G. 'अभिसंधिना'.
[^३]G. 'धर्मः कलया.
[^४]G. 'समाश्रयेत्'
[^५]G. 'अदृश्य स्वप्ने भगवान्भर्ग:'.