2023-06-28 15:04:10 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः [^१] पदचन्द्रिका-भूषणां-लघुदीपिकासहितम् । १५१
परिग्रहश्लाघन मघिनि ग्रहाग्रेसरे क्षपाकरे, कल्पसुन्दरीवदनपुण्डरी-
केणेव मद्दर्शनातिरागप्रथमोपनतेन स्मयमानेन चन्द्रमण्डलेन
संधुक्षमाणतेजसि भुवनविजिगीषोद्यते देवे कुसुमधन्वनि, यथो-
चितं शयनीयमभजे । व्यचीचरं च–'सिद्धप्राय एवायमर्थः ।
किंतु परकलत्रलङ्घनाद्धर्मपीडा भवेत्, साप्यर्थकामयोर्द्वयोरुप-
लम्भे शास्त्रकारैरनुमतैवेति । गुरुजनबन्धमोक्षोपाय [^२]संधिंधिना मया
चैष व्यतिक्रमः कृतः, तदपि पापं निर्हत्य कियत्यापि धैर्मक-
[^२]धर्मकलया मां [^४]ग्रयेदिति । अपि त्वेतदाकर्ण्य देवो राजवाहनः

सुहृदो वा किं नु वक्ष्यन्ति' इति चिन्तापराधीन एव निद्रया

परामृश्ये । [^५]अदृश्यत च स्वप्ने हस्तिवकोक्त्रो भगवान् । आह

स्म च – 'सौम्य उपहारवर्मन्, मा स्म ते दुर्विकल्पो भूत् । यत-

 

 
पदचन्द्रिका ।
 

 
कमिवाचार्यभावम् । 'मन्त्रव्याख्याकृदाचार्यः' इत्यमरः । इवशब्दोऽत्रोत्प्रेक्षायाम् ।
गुरुपरिग्रहो गुरुपत्न्यभिलाषस्तातच्छ्ला- घिनि श्लाघतेऽसौ तथा तस्मिन् । ग्रहाग्रेसरे
ग्रहमुख्ये । क्षपाकरे चन्द्रे । 'नक्षत्रेशः क्षपाकरः' इत्यमरः । कल्पसुन्दर्या राज-
पत्न

पत्न्
याः वदनपुण्डरीकं मुखकमलम् । मद्दर्शनातिरागो मद्दर्शनेच्छा तेन प्रथमोप-
नतेन प्रागेव प्राप्तेन । संधुक्षमाणतेजसि प्रवृद्धतेजसि । भुवनविजिगीषा जगद्विजे-
तुमिच्छा तत्रोद्यते । कुसुमधन्वनि मदने । यथोचितं यथायोग्यम् । शयनीयं
शय्याम् । अभजेऽधिष्ठितवान् । क्रियाबलादहमिति पदमध्याहार्यम् । व्यचीचरं
चेति । सिद्धप्राय ईषन्न्यूनः सिद्धः । किंत्विति । परकलत्रलङ्घनं परस्त्रीग-
मनम् । धर्मपीडा धर्मनाशः । सापि धर्मपीडा । अर्थकामयोरुपलम्मेभे प्राप्तौ ।
शास्त्रकारैर्मन्वादिभिः । अनुमतैवानिषिद्धैव । गुरुजनस्य पितृलोकस्य । मोक्षो-
पायो मोचनोद्योगस्तत्संधिना । संधिः साधकता । व्यतिक्रमो धर्मनाशरूपः ।
तदपि पापम् । समग्रयेत् संपूर्णं करिष्यति । अपि त्विति । एतत्कर्म । आकर्ण्य
श्रुत्या देवो राजवाहनः । सुहृदोऽन्ये । किं नु वक्ष्यन्ति किं नु निन्दां कुर्वन्तीति

अदृश्यतेति । हस्तिवकोक्त्रो गजाननः । दुर्विकल्पो दुर्विचारः । सुरसरिद्गङ्गा
 

 
भूषणा ।
 

 
'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः । धर्मपीडा धर्मबाधा । अभि-
संधिरुद्योगः । 'अभिसंधिः समुद्योगः' इति भागुरिः । दुर्विकल्पो दुर्विचारः
 

 
[^१]G
.. पाठा०- १ 'परिग्रहग्रहण'.
[^
]G. 'अभिसंधिना'.
[^
]G. 'धर्मः कल्या.
[^

]G. 'समाश्रयेत्'
[^
]G. 'अदृश्य स्वप्ने भगवान्भर्ग:'.