2023-09-05 10:21:18 by Lakshmainarayana achar

This page has been fully proofread twice.

ऽमुना पुरुषेण [^१]मामद्योद्यानमाधवीगृहे समागमय। तद्वार्ताश्र-
वणमात्रेणैव हि ममातिमात्रं मनोऽनुरक्तम् । अस्ति चायमर्थ-
राशिः । [^२]अनेनामुष्य पदे प्रतिष्ठाप्य तमेवात्यन्तमुपचर्य जीवि-
ष्यामि' इति । मयापि तदभ्युपेत्य प्रत्यागतम् । अतः परं भर्तृदारक: प्रमाणम्' इति ।
ततस्तस्या एव सकाशादन्तःपुरनिवेश [^३]मन्तर्वंशिकपुरुषस्थानानि प्रमदवनप्रदेशानपि विभागेनावगम्य, अस्तगिरिकूटपातक्षुभितशोणित इव शोणीभवति भानुबिम्बे, पश्चिमाम्बुधिपयःपातनिर्वापितपतङ्गाङ्गारधूमसंभार इव [^४]भरिततमसि नभसि विजृम्भिते, परदारपरामर्शोन्मुखस्य ममाचार्यकमिव कर्तु [^५]मुत्थिते गुरु-
 
पदचन्द्रिका ।
 
प्राप्तमिति भावः । चेतश्चित्तं यासामिति तथा तासाम् । अनिष्टजनः शत्रुलोकस्तत्संवासस्तत्समागमः स एव यन्त्रणा निर्बन्धस्तद्दुःखमिति । अमुना पुरुषेण त्वत्कथितेन । अद्यास्मिन्दिवसे । उद्यानमाधवीगृह उपवनवासन्तिकागृहे । समागमय । मिलापयेत्यर्थः । तद्वार्ता तस्य पुरुषस्य वार्ता गोष्ठी । अतिमात्रमत्यन्तम् । अस्तीति । अर्थराशिर्द्रव्यराशिः । अमुष्य विकटवर्मणः । तमेव पुरुषमेव । उपचर्याराध्य । मयापि वृद्धतापस्या । भर्तृदारको राजपुत्रः।
तत इति । तस्या एव वृद्धाया एव । अन्तःपुरनिवेशमन्तःपुरप्रदेशम् । अन्तर्वंशिकपुरुषाः । 'अन्तःपुरे अधिकृतः स्यादन्तर्वंशिको जनः' इत्यमरः । प्रमदवनप्रदेशान् क्रीडावनप्रदेशान् । 'विज्ञेयं प्रमदवनं पुरोपकण्ठे शुद्धान्तैः सह रमते नृपस्तु यस्मिन्' इति हलायुधः । विभागेन विवेकेन । अस्तगिरिरस्ताचलस्तस्य कूटं शिखरं तस्माद्यः पातः पतनं तेन क्षुभितं निःसृतं शोणितं रक्तं यस्येति तथा तस्मिन् शोणीभवति सति रक्तीभवति सति । भानुबिम्बे सूर्यबिम्बे । पश्चिमाम्बुधिः । पश्चिमसमुद्रस्तस्य पय उदकं तत्र पातः पतनं तेन निर्वापितो दूरीकृतः पतङ्ग एव सूर्य एवाङ्गारः प्रदीप्तकाष्ठा-वयवस्तस्य धूमस्तस्य संभारो यस्मिन्निति तथा तस्मिन् । भरितं पूर्णीकृतं तमो यस्मिन्निति तथा तस्मिन् । नभस्याकाशे । विजृम्भिते विकाशं प्राप्ते । परदारा परस्त्री । परामर्शो गमनम्, तत्रोन्मुखस्योत्कण्ठितस्य । आचार्य-
 
भूषणा ।
 
यस्मिन्' इति हलायुधः । आचार्यकमाचार्यभावम् । गुरुपरिग्रहो बृहस्पतिपत्नी ।
 
लघुदीपिका ।
 
'विज्ञेयं प्रमदवनं नृपस्तु यस्मिन् शुद्धान्तैः सह रमते पुरोपकण्ठे' इति हलायुधः । आचार्यकमाचार्यभावम् । गुरुपरिग्रहो बृहस्पतिपत्नी । 'अभिसंधिः समुद्योगे' इति
 
[^१]G. 'अद्य श्वो वा'.
[^२]G. 'अमुं स्वे पदे'.
[^३]G. 'संनिवेश',
[^४]G. 'भरितनभसि तमसि'.
[^५]G. 'उपस्थिते. '