2023-05-18 02:10:31 by ambuda-bot
This page has not been fully proofread.
१५०
दशकुमारचरितम् ।
[तृतीयः
१
ऽमुना पुरुषेण मामद्योद्यानमाधवीगृहे समागमय तंद्वार्ताश्र-
वणमात्रेणैव हि ममातिमात्रं मनोऽनुरक्तम् । अस्ति चायमर्थ-
· राशिः । अनेनामुष्य पढ़े प्रतिष्ठाप्य तमेवात्यन्तमुपचर्य जीवि-
ष्यामि' इति । मयापि तद्भ्युपेत्य प्रत्यागतम् । अतः परं भर्तृ-
दारक: प्रमाणम्' इति ।
ततस्तस्या एव सकाशादन्तः पुरनिवेशमैन्तर्वशिकपुरुषस्थानानि
अमवनप्रदेशानपि विभागेनावगम्य, अस्तगिरिकूटपातक्षुभित-
शोणित इव शोणीभवति भानुबिम्बे, पश्चिमाम्बुधिपयःपात-
निर्वापितपतङ्गाङ्गारधूमसंभार इव भरिततमसि नभसि विजू-
म्भिते, परदारपरामर्शोन्मुखस्य ममाचार्यकमिव कर्तुर्मुत्थिते गुरु-
•
}
पदचन्द्रिका ।
प्राप्तमिति भावः । चेतश्चित्तं यासामिति तथा तासाम् । अनिष्टजनः शत्रुलोकस्त-
त्संवासस्वत्समागमः स एव यन्त्रणा निर्बन्धस्तद्दुःखमिति । अमुना पुरुषेण वत्क-
थितेन । अद्यास्मिन्दिवसे । उद्यानमाधवीगृह उपवनवासन्तिकागृहे । समागमय ।
मिलापयेत्यर्थः । तद्वार्ता तस्य पुरुषस्य वार्ता गोष्ठी । अतिमात्रमयन्तम् ।
अस्तीति । अर्थराशिर्द्रव्यराशिः । अमुष्य विकटवर्मणः । तमेव पुरुषमेव । उपच-
र्याराध्य । मयापि वृद्धतापस्या । भर्तृदारको राजपुत्रः ॥
तत इति । तस्या एव वृद्धाया एव । अन्तःपुरनिवेशमन्तःपुरप्रदेशम् ।
अन्तर्वंशिकपुरुषाः । 'अन्तःपुरे अधिकृतः स्यादन्तर्वंशिको जनः' इत्यमरः ।
प्रमदवनप्रदेशान् क्रीडावनप्रदेशान् । 'विज्ञेयं प्रमदवनं पुरोपकण्ठे शुद्धान्तैः
सह रमते नृपस्तु यस्मिन्' इति हलायुधः । विभागेन विवेकेन । अस्तगिरि-
रस्ताचलस्तस्य कूटं शिखरं तस्माद्यः पातः पतनं तेन क्षुभितं निःसृतं
शोणितं रक्तं यस्येति तथा तस्मिन् शोणीभवति सवि रक्तीभवति सति ।
भानुबिम्बे सूर्यबिम्बे । पश्चिमाम्बुधिः । पश्चिमसमुद्रस्तस्य पय उदकं तत्र
पातः पतनं तेन निर्वापितो दूरीकृतः पतङ्ग एव सूर्य एवाजारः प्रदीप्तकाष्ठा-
वयवस्तस्य धूमस्तस्य संभारो यस्मिन्निति तथा तस्मिन् । भरितं पूर्णांकृतं
तमो यस्मिन्निति तथा तस्मिन् । नभस्याकाशे । विजृम्भिते विकाशं प्राप्ते ।
परदारा परस्त्री । परामर्शो गमनम् तत्रोन्मुखस्योत्कण्ठितस्य । आचार्य-
भूषणा ।
यस्मिन्' इति हलायुधः । आचार्यकमाचार्यभावम् । गुरुपरिग्रह बृहस्पतिपत्नी ।
लघुदीपिका ।
'विज्ञेयं प्रमदवनं नृपस्तु यस्मिन् शुद्धान्तैः सह रमते पुरोपकण्ठे' इति हलायुधः ।
आचार्यकमाचार्यभावम् । गुरुपरिग्रहो वृहस्पतिपत्नी । 'अभिसंधिः समुद्योगे' इति
पाठा० - १ 'अद्य श्वो वा'. २ 'अमुं स्खे पढ़े'. ३ 'संनिवेश', ४ 'भरित-
नभसि तमसि'. ५ 'उपस्थिते. '