2023-09-05 10:21:27 by Lakshmainarayana achar

This page has been fully proofread twice.

भर्ता विशेषतश्चैषु वासरेषु यदयमुद्याने मदन्तरङ्गभूतां पुष्क-
रिकामप्युपान्तवर्तिनीमनादृत्य मयि बद्धसापत्नयमत्सरामनात्म-
ज्ञामात्मनाटकीयां रमयन्तिकां [^१]नामापत्यनिर्विशेषं मत्संवर्धितायाश्चम्पकलतायाः स्वयमवचिताभिः सुमनोभिरलमकार्षीत् । मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतल्पे तया सह व्यहार्षीत् । अयोग्यश्च पुमानवज्ञातुं च प्रवृत्तः । तत्किमित्यपेक्ष्यते । परलोकभयं चैहिकेन दुःखेनान्तरितम् ।अविषह्यं हि योषितामनङ्ग शरनिषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखम् । अतो-
 
पदचन्द्रिका ।
 
तथा । आत्मश्लाघावान् । 'विकत्थनं स्तवः श्लाघा' इति हलायुधः । अनृतवाद्यसत्यवक्ता । आस्थानवर्ष्यपात्रदाता । नातिरोचते न रुचिपदं भवतीत्यर्थः । म इति मह्यम् ।'रुच्यर्थानां - ' ( २।३।५४ ) इति चतुर्थी । विशेषत इति । अयं भर्ता विकटवर्मा । उद्यान उपवने । मदन्तरङ्गभूतामाप्तभूताम् । उपान्तवर्तिनीं समीपवर्तिनीम् । अनादृत्य तिरस्कृत्य । 'अनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः । बद्धः सपत्नस्य भावः सापत्न्यं तस्य मत्सरोऽसह्यता ययेति तथा । 'अथ मत्सरः । असह्यपरसंपत्तौ' इति विश्वः । नाटकीयां नर्तकीम् । 'नाटकीयो नृत्तकरः' इत्यजयः ।
अपत्यनिर्विशेषमपत्यतुल्यमिति क्रियाविशेषणम् । मत्संवर्धिताया मत्पालितायाः । चम्पकलतायाः । अल्पचम्पकस्येत्यर्थः । स्वयमात्मनैव । अवचिताभिर्लूनाभिः । सुमनोभिः पुष्पैः । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः । अलमकार्षीत्पूर्णमकरोत् ।
अलंकृतवानिति वा । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । मदुपभुक्तमुक्ते मयादौ भुक्ते पश्चान्मुक्ते । चित्रकूटः क्रीडापर्वतः । तद्गर्भवेदिकागते । रत्नतल्पे रत्नमञ्चके । तया रमयन्तिकया । सह साकम् । व्यहार्षीद्विहारं कृतवान् ।
अयोग्यो मूर्खः । अवज्ञातुमवमानितुम् । ऐहिकेनेह भवं तथा तेन । अन्तरितं व्यवधानीकृतम् । अविषह्यं सोढुमशक्यम् । योषितां स्त्रीणाम् । 'स्त्री योषिदबला' इत्यमरः । अनङ्गशरा मदनबाणास्तेषां निषङ्गीभूतं तूणीभूतम् । स्थानतां
 
भूषणा ।
 
नाटकीयां नृत्तकरीम् । 'नाटकीयो नृत्तकरः' इत्यजयः । रमयन्तिकामेतन्नाम्नीम् । प्रमदवनं क्रीडावनम् । 'विज्ञेयं प्रमदवनं पुरोपकण्ठे शुद्धान्तैः सह रमते नृपस्तु
 
लघुदीपिका ।
 
संपन्नेऽनुगुणेऽपि च ' इति केशवः । 'संस्थानं मरणे गात्रे संनिवेशे च वर्तते' इति भागुरि: । 'विकत्थनः स्तवः श्लाघा' इति हलायुधः । नाटकीयां नृत्तकरीम् । 'नाटकीयो नृत्तकरः' इत्यजयः । रमयन्तिकेति नाम्ना । प्रमदवनं क्रीडावनम् ।
 
[^१]G. 'नामाप्यपत्य'.