2023-05-18 02:10:31 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । १४९
भर्ती विशेषतञ्चैषु वासरेषु यदयमुद्याने मदन्तरङ्गभूतां पुष्क-
रिकामप्युपान्तवर्तिनीमनादृत्य मयि बद्धसापत्नयमत्सरामनात्म-
ज्ञामात्मनाटकीयां रमयन्तिकां नामापत्यनिर्विशेष मत्संवर्धिताया-
अम्पकलतायाः स्वयमवचिताभिः सुमनोभिरलमकार्षीत् । मदु-
पभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतल्पे तया सह व्यहार्षीत् ।
अयोग्यश्च पुमानवज्ञातुं च प्रवृत्तः । तत्किमित्यपेक्ष्यते । परलोक-
भयं चैहिकेन दुःखेनान्तरितम् । अविषह्यं हि योषितामनङ्ग -
शरनिषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखम् । अतो-
W
पदचन्द्रिका ।
तथा । आत्मश्लाघावान् । 'विकत्थनं स्तवः 'लाघा' इति हलायुधः । अनृतवाद्यसत्यवक्ता ।
आस्थानवर्ष्यपात्रदाता । नातिरोचते न रुचिपदं भवतीत्यर्थः । म इति मह्यम् ।
'रुयर्थानां - ' ( २ । ३ । ५४ ) इति चतुर्थी । विशेषत इति । अयं भर्ता विकट-
वर्मा । उद्यान उपवने । मदन्तरङ्गभूतामाप्तभूताम् । उपान्तवर्तिनीं समीपवर्तिनीम् ।
अनादृत्य तिरस्कृत्य । 'अनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः । बद्धः
सपत्नस्य भावः सापत्न्यं तस्य मत्सरोऽसयता ययेति तथा । 'अथ मत्सरः । अस-
त्यपरसंपत्तौ' इति विश्वः । नाटकीयां नर्तकीम् । 'नाटकीयो नृत्तकरः' इत्यजयः ।
अपत्यनिर्विशेषमपत्यतुल्यमिति क्रियाविशेषणम् । मत्संवर्धिताया मत्पालितायाः ।
चम्पकलतायाः । अल्पचम्पकस्येत्यर्थः । स्वयमात्मनैव । अवचिताभिर्ल्नाभिः ।
सुमनोभिः पुष्पैः । 'स्त्रियः सुमनसः पुष्पम्' इत्यमरः । अलमकार्षीत्पूर्णमकरोत् ।
अलंकृतवानिति वा । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । मदुपभुक्त-
मुक्ते मयादौ भुक्ते पश्चान्मुक्ते । चित्रकूटः क्रीडापर्वतः । तद्गर्भवेदिकागते । रत्न-
तल्पे रत्नमञ्चके । तया रमयन्तिकया । सह साकम् । व्यहार्षीद्विहारं कृतवान् ।
अयोग्यो मूर्खः । अवज्ञातुमवमानितुम् । ऐहिकेनेह भवं तथा तेन । अन्तरितं
व्यवधानीकृतम् । अविषह्यं सोढुमशक्यम् । योषितां स्त्रीणाम् । 'स्त्री योषि-
दबला' इत्यमरः । अनङ्गशरा मदनबाणास्तेषां निषङ्गीभूतं तूणीभूतम् । स्थानतां
भूषणा ।
नाटकीयां नृत्तकरीम् । 'नाटकीयो नृत्तकरः' इत्यजयः । रमयन्तिकामे तन्नाम्नीम् ।
प्रमदवनं क्रीडावनम् । 'विज्ञेयं प्रमदवनं पुरोपकण्ठे शुद्धान्तैः सह रमते नृपस्तु
लघुदीपिका ।
न्च
संपन्नेऽनुगुणेऽपि च ' इति केशवः । 'संस्थानं मरणे गात्रे संनिवेशे च वर्तते' इति
भागुरि: । 'विकत्थनः स्तवः श्लाघा' इति हलायुधः । नाटकीयां नृत्तकरीम् ।
'नाटकीयो नृत्तकरः' इत्यजयः । रमयन्तिकेति नाम्रा । प्रमदवनं क्रीडावनम् ।
पाठा०-१ 'नामाप्यपत्य'.