2023-09-05 10:21:34 by Lakshmainarayana achar

This page has been fully proofread twice.

मानुषप्राणसत्त्वप्रज्ञाप्रकर्षस्य न किंचिद्दुष्करं नाम । तमद्यैव दर्श-
येयम् । संकेतो देयः' इति । तया तु किंचिदिव ध्यात्वा पुन-
रभिहितम् – 'अम्ब, तव नैतदिदानीं गोप्यतमम् । अतः कथ-
यामि । मम तातस्य राज्ञा प्रहारवर्मणा सह महती प्रीतिरासीत् ।
मातुश्च मे मानवत्याः प्रियवयस्या देवी प्रियंवदासीत् । ताभ्यां
पुनरजातापत्याभ्यामेव कृतः समयोऽभूत् – 'आवयोः पुत्रवत्याः
पुत्राय दुहितृमत्या दुहिता देया' इति । तातस्तु मां जातां प्रन-
ष्टापत्या प्रियंवदेति प्रार्थयमानाय विकटवर्मणे दैवाद्दत्तवान् ।
अयं च निष्ठुरः पितृद्रोही नात्युपपन्नसंस्थानः कामोपचारेष्वलब्ध-
वैचक्षण्यः कलासु काव्यनाटकादिषु मन्दाभिनिवेशः शौर्यो-
न्मादी दुर्विकत्थनोऽनृतवादी चास्थानवर्षी । नातिरोचते म एष
 
पदचन्द्रिका ।
 
आधिक्यं यस्येति स तथा तस्य न किंचिद्दुष्करम् । सर्वं सुकरमेवेति भावः । नामेति निश्चयार्थे । तं पुरुषम् । अद्यैवेति ।स्वस्यैतत्कार्यघटनापटुत्वद्योतनार्थमेवकारः । ध्यात्वा विचार्य । गोप्यतममतिशयेन गोप्यमिति तथा । मम तातस्य मत्पितुः ।
प्रहारवर्मणा राज्ञा । महत्यतिश्रेष्ठा । प्रियवयस्या प्रियसखी अजातापत्याभ्यामनुत्पन्नापत्याभ्याम् । समयः शपथः । आवयोर्द्वयोः । तातो मत्पिता । प्रनष्टापत्या हृतापत्या । अयं विकटवर्मा । निष्ठुरः कठिनः । उपपन्नसंस्थानः । 'उपपन्नं समृद्धे च संपन्नेऽनुगुणेऽपि च ' इति केशवः । 'संस्थानं मरणे गात्रे संनिवेशे च वर्तते' इति भागुरिः । कामोपचारेषु मदनतन्त्रेषु । अलब्धमप्राप्तं वैचक्षण्यं विचक्षणस्य भावः कौशलं येनेति स तथा । कलासु चतुःषष्टिषु । काव्येषु श्राव्यरूपेषु । नाटकादिषु दृश्यरूपेषु । आदिशब्देन रूपकाख्यायिकाचम्पूरूपेषु । मन्दो निश्चलोऽभिनिवेश आग्रहो यस्येति । शौर्योन्मादी शौर्योन्मत्तः । दुर्विकत्थनो दुष्टश्चासौ विकत्थनश्चेति
 
भूषणा ।
 
व्यवसाये पराक्रमे' इति वैजयन्ती । उपपन्नसंस्थानोऽनुगुणावयवः । उपपन्नं समृद्धे च संपन्नेऽनुगुणेऽपि च' इति केशवः । 'संस्थानं मरणे गात्रे संनिवेशे च वर्तते' इति भागुरिः । दुर्विकत्थनः । 'विकत्थनं स्तवः श्लाघा' इति हलायुधः ।
 
लघुदीपिका ।
 
'सत्त्वोsस्त्री जन्तुषु क्लीबे व्यवसाये पराक्रमे । आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः' इति वैजयन्ती । उपपन्नसंस्थानोऽनुगुणावयवः । 'उपपन्नं समृद्धे च