2023-05-18 02:09:50 by ambuda-bot
This page has not been fully proofread.
दशकुमारचरितम् । [ पूर्वपीठिकायां
आतपत्रसहस्रपत्रं पादद्वयम्, अस्त्रभूतानि प्रसूनानि तानीतराण्य-
जानि च समभूवन्निव । विजितामरपुरे पुष्पपुरे निवसता सानन्तभो-
गलालिता वसुमती वसुमतीव मगधराजेन यथासुखमन्वभावि ।
तस्य राज्ञः परमविधेया धर्मपालपद्मोद्भवसितवर्मनामधेया धीर-
धिषणावधीरितविबुधाचार्यविचार्यकार्यसाहित्याः कुलामात्यास्त्रयो-
ऽभूवन् । तेषां सितवर्मणः सुमतिसत्यवर्माणौ, धर्मपालस्य सुमन्त्रसु-
मित्रकामपालाः, पद्मोद्भवस्य सुश्रुतरत्नोद्भवाविति तनयाः समभूवन् ।
तेषु धर्मशीलः सत्यवर्मा संसारासारतां बुद्धा तीर्थयात्राभिलाषी
देशान्तर मगमत् । विटुनटुवारनारीपरायणो दुर्विनीतः कामपालो
जनकाग्रजन्मनोः शासनमतिक्रम्य भुवं बभ्राम । रत्नोद्भवोऽपि
वाणिज्यनिपुणतया पारावारतरणमकरोत् । इतरे मत्रिसूनवः पुरंदर-
पुरातिथिषु पितृषु यथापूर्वमन्वतिष्ठन् ।
४
C
स्तम्भेति । आरम्भाः कर्माणि । आरभ्यन्त इत्यारम्भाः । रम्मे कदली ।
ऊर्वोर्युगमूरुयुगम् । आतपत्रेति । आतपात्रायते तदातपत्रं छत्रं तद्रूपं यत्सहस्र-
पत्रं कमलं तत् । प्रसूनानि पुष्पाणि । 'प्रसूनं कुसुमं सुमम्' इत्यमरः । समभूवन् ।
'भू सत्तायाम्' इति धातोर्लुडि रूपम् । विजितेति । विजितं स्ववैभवेन तिर-
स्कृतममरपुरमिन्द्रनगरी येन तस्मिन् । अन्वभावि । अन्वित्युपसर्गपूर्वकस्य 'भू
सत्तायाम् इति धातोः कर्मणि लुड् ॥
तस्येति । विधेया विनयग्राहिणः । 'विधेयो विनयग्राही' इत्यमरः । धिषणा
बुद्धिः । 'बुद्धिर्मनीषा धिषणा' इत्यमरः । विबुधाचार्यः सुरगुरुस्तेनापि विचार्य
विचारार्ह यत् कार्य तस्मिन्नपि साहाय्यकारिणः । अतीव पटुबुद्धय इति भावः ।
कुलामाया वंशक्रमागताः । धर्मशीलो धार्मिकः । असारतां फल्गुताम् । अध्रुव-
त्वमित्यर्थः । अन्यो देशो देशान्तरम् । अगमदिति । 'गम्लु गतौ' इत्यस्य लुङि
रूपम् । विटाः विज्ञाः । 'विटोऽद्रौ लवणे विने मूषिके खदिरेऽपि च' इति मेदिनी ।
नटाः शैलूषाः । 'भरता इत्यपि नटाः' इत्यमरः । वारनार्यो गणिकाः । परायणस्त-
त्परः । दुर्विनीतोऽविनीतः । जनकश्चाग्रजन्मा च जनकाग्रजन्मानौ तयोः ।
पितुर्ज्येष्ठ भ्रातुश्चेत्यर्थः । शासनं निदेशम् । बभ्रामेति 'भ्रमु अनवस्थाने' इत्यस्य
लिटि रूपम् । वाणिज्यं वणिक्कर्म । भाण्डस्य द्वीपान्तरे नयनं द्वीपान्तरादानयनमि-
त्यादि च । पारावारः समुद्रः । 'पारावारः सरित्पतिः' इत्यमरः । पुरंदर इन्द्रस्तस्य
पुरं नगरं तदतिथयो गृहागताः । 'दूराञ्चोपनतं श्रान्तं वैश्वदेव उपस्थितम् ।
अतिथि तं विजानीयात्' इति व्यासः । प्रेत्य महेन्द्रनगरं गतेषु । मृतेष्विति
तात्पर्यायः । पूर्वमनतिक्रम्य वर्तत इति यथापूर्वम् । अनुपूर्वः ष्ठाघातुः करणार्थे
वर्तते । 'ठा गतिनिवृत्तौ' इत्यस्य लङि रूपम् । अकुर्वन्नित्यर्थः ॥