2023-06-27 15:21:25 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
महाकुलीनश्च कश्चित्संनिहितः स्यात् स किं लप्स्यते ?' इति ।
तयोक्तम् – 'अम्ब, किं ब्रवीमि । शरीरं हृदयं जीवितमिति
सर्वमिदमल्पमनर्हं च । ततो न किंचिल्लप्स्यते । न चेदयं विप्रल-
म्भ[^१]स्तस्यामुष्य दर्शनानुभवेन यथेदं चक्षुश्चरितार्थं भवेत्तथानु-
ग्रहः कार्यः' इति । भूयोऽपि मया दृढतरीकर्तुमुपन्यस्तम्-
'अस्ति कोऽपि राजसूनु [२]र्निगूढं चरन् । अमुष्य वसन्तोत्सवे सह-
सखीभिर्नगरोपवनविहारिणी रतिरिव विग्रहिणी यदृच्छया दर्शन-
पथं गतासि । गतश्चासौ कामशरैकलक्ष्यतां मामन्ववर्तिष्ट ।
मया च वामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणातिशयैश्च
प्रेर्यमाणया तद्रचितैरेव कुसुमशेखरस्रगनुलेपनादिभिश्चिरमुपासि-
तासि । सादृश्यं च स्वमनेन स्वयमेवाभिलिख्य [^३]त्वत्समाधिगा-
ढत्वदर्शनाय प्रेषितम् । एष चेदर्थो निश्चितस्तस्यामुष्याति-
पदचन्द्रिका ।
लम् । शिल्पं चातुर्यम् । शीलं स्वभावः । विद्याश्चतुर्दशाष्टादश वा । ज्ञानं लिप्यादि । युवा तरुणः । तयोक्तं वृद्धयोक्तम् । अनर्हमयोग्यम् । किंचिल्लप्स्यते प्राप्यते । अमुष्य पुरुषस्य । चरितार्थं कृतकृत्यम् । उपन्यस्तम् । उक्तमित्यर्थः । अस्तीति ।
निगूढं गुप्तम् । नगरोपवनं नगरारामः । विग्रहिणी विरोधिनी । यदृच्छया स्वेच्छया । दर्शनपथं दर्शनमार्गम् । गतश्चेति । असौ राजपुरुषः । लक्ष्यतां वेध्यताम् । मया चेति । वां युवयोः । अन्योन्यानुरूपैः परस्परानुरक्तैः । प्रेर्यमाणयोद्योजितया । तद्रचितैस्तन्निर्मितैः । शेखर आपीडः । स्रङ्माला ।अनुलेपनमुद्वर्तनम् । उपासितासि । सेवितासीत्यर्थः । सादृश्यं सदृशरूपम् । अनेन पुरुषेण स्वयमेव स्वहस्तेनैवेत्यर्थः । त्वत्समाधिगाढं त्वद्ध्यानदृढम् । एष चेदिति पूर्वोक्तोऽयमर्थः । निश्चितो नियतः । अतिमानुषो मनुष्यमतिक्रान्तः । प्राणो बलम् । सत्त्वं पराक्रमः ।
भूषणा ।
न्नास्तामथ तु चाव्ययम्' इत्यजयः । विप्रलम्भः प्रतारणम् । अवरुद्धो गूढः । समाधिश्चित्तवृत्तिनिरोधः । गाढवदर्शनाय दृढत्वज्ञानाय । 'गाढबाढदृढानि च' इत्यमरः । प्राणो बलम् । सत्त्वं पराक्रमः । 'सत्त्वोऽस्त्री जन्तुषु क्लीबे
लघुदीपिका ।
इत्यजयः । विप्रलम्भः प्रतारणम् । उपरुद्धो गूढः । समाधिश्चित्तवृत्तिनिरोधः । गाढदर्शनाय दृढज्ञानाय । 'गाढबाढदृढानि च ' । प्राणो बलम् । सत्त्वं पराक्रमः ।
[^१]G. 'स्यात् तस्या अमुष्य'.
[^२]G. 'अवरुद्ध:'.
[^३]G. 'त्वत्समाधिगमाय गाढं त्वद्दर्शनाय'.