2023-06-27 15:18:50 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
१४७
 
pl
 
महाकुलीनश्च कश्चित्संनिहितः स्यात् स किं लप्स्यते ?' इति ।

तयोक्तम् – 'अम्ब, किं ब्रवीमि । शरीरं हृदयं जीवितमिति

सर्वमिदमल्पमनर्हं च । ततो न किंचिल्लप्स्यते । न चेदयं विप्रल-

म्भ[^१]स्तस्यामुष्य दर्शनानुभवेन यथेदं चक्षुश्चरितार्थं भवेत्तथानु-

ग्रहः कार्यः' इति । भूयोऽपि मया दृढतरीकर्तुमुपन्यस्तम्-

'अस्ति कोऽपि राजसूनु [२]र्निगूढं चरन् । अमुष्य वसन्तोत्सवे सह-

सखीभिर्नगरोपवनविहारिणी रतिरिव विग्रहिणी यदृच्छया दर्शन-

पथं गतासि । गतश्चासौ कामशरैकलक्ष्यतां मामन्ववर्तिष्ट ।

मया च बावामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणातिशयैश्च

प्रेर्यमाणया तद्रचितैरेव कुसुमशेखरस्रगनुलेपनादिभिश्चिरमुपासि-

तासि । सादृश्यं च स्वमनेन स्वयमेवाभिलिख्य [^३]त्वत्समाधिगा-

ढत्वदर्शनाय प्रेषितम् । एष चेदर्थो निश्चितस्तस्यामुष्याति-

 

 
पदचन्द्रिका ।
 

 
लम् । शिल्पं चातुर्यम् । शीलं स्वभावः । विद्याश्चतुर्दशाष्टादश वा । ज्ञानं लिप्यादि ।
युवा तरुणः । तयोक्तं वृद्धयोक्तम् । अनर्हमयोग्यम् । किंचिल्लप्स्यते प्राप्यते ।
अमुष्य पुरुषस्य । चरितार्थं कृतकृत्यम् । उपन्यस्तम् । उक्तमित्यर्थः । अस्तीति ।

निगूढं गुप्तम् । नगरोपवनं नगरारामः । विग्रहिणी विरोधिनी । यदृच्छया खेस्वेच्छया ।
दर्शनपथं दर्शनमार्गम् । गतश्चेति । असौ राजपुरुषः । लक्ष्यतां वेध्यताम् । मया
चेति । वां युवयोः । अन्योन्यानुरूपैः परस्परानुरक्तैः । प्रेर्यमाणयोद्योजि
तया । तद्रचितैस्तन्निर्मितैः । शेखर आपीडः । स्रङ्माला । अनुलेपनमुद्वर्तनम् । उपा-
सितासि । सेवितासीत्यर्थः । सादृश्यं सदृशरूपम् । अनेन पुरुषेण स्वयमेव स्वहस्ते-
नैवेत्यर्थः । त्वत्समाधिगाढं त्वद्ध्यानदृढम् । एष चेदिति पूर्वोक्तोऽयमर्थः । निश्चितों
तो नियतः । अतिमानुषो मनुष्यमतिक्रान्तः । प्राणो बलम् । सत्त्वं पराक्रमः ।
 

 
भूषणा ।
 

 
न्
नास्तामथ तु चाव्ययम्' इत्यजयः । विप्रलम्भः प्रतारणम् । अवरुद्धो गूढः ।
समाधिश्चित्तवृत्तिनिरोधः । गाढवदर्शनाय दृढत्वज्ञानाय 1. 'गाढबाढदृढानि
च' इत्यमरः । प्राणो बलम् । सत्त्वं पराक्रमः । 'सत्त्वोऽस्त्री जन्तुषु क्लीबें
बे
 
लघुदीपिका ।
 

 
इत्यजयः । विप्रलम्भः प्रतारणम् । उपरुद्धो गूढः । समाधिश्चित्तवृत्तिनिरोधः ।
गाढदर्शनाय दृढज्ञानाय । 'गाढबाढदृढानि च ' । प्राणो बलम् । सत्त्वं पराक्रमः ।
 
पाठा०-

 
[^
]G. 'स्यात् तस्या अमुष्य'.
[^
]G. 'अवरुद्ध:'.
[^
]G. 'त्वत्समाधिगमाय
गावं त्वढं त्वद्दर्शनाय'.