2023-09-05 10:21:49 by Lakshmainarayana achar

This page has been fully proofread twice.

स्थापिता । किं भूयः कृत्यम्' इति । पुनरहमभि ]^१]लिख्यात्मनः प्रतिकृतिम् ' इयममुष्यै नेया । नीतां चैनां निर्वर्ण्य सा नियतमेवं
वक्ष्यति — 'नन्वस्ति कश्चिदीदृशाकारः पुमान्' इति । प्रतिब्रूह्ये-
नाम् – 'यदि स्यात्ततः किम् ?' इति । तस्य यदुत्तरं सा दास्यति
'तदहमस्मि प्रतिबोधनीया' इति । सा ' तथा ' इति राजकुल-
मुपसंक्रम्य प्रतिनिवृत्ता मामेकान्ते न्यवेदयत् – 'वत्स दर्शितोऽसौ चित्रपटस्तस्यै मत्तकाशिन्यै । चित्रीयमाणा चासौ भुवनमिदं सनाथीकृतं यद्देवेऽपि कुसुमधन्वनि नेदृशी वपुःश्रीः संनिधत्ते । चित्रमेतच्चित्रतरम् । न च तमवैमि य ईदृशमिहत्यो निर्मिमीते । केनेदमालिखितम्' इत्यादृतवती व्याहृतवती च । मया च स्मेरयोदीरितम् – 'देवि, सदृशमाज्ञापयसि । भगवान्मकर-केतुरप्येवं सुन्दर इति न शक्यमेवं संभावयितुम् । अथ च
विस्तीर्णेयमर्णवनेमिः । क्वचिदीदृशमपि रूपं दैवशक्त्या संभवेत् ।
अथ तु यद्येवंरूपो रूपानुरूपशिल्पशीलविद्याज्ञानकौशलो युवा
 
पदचन्द्रिका ।
 
संबोध्य । आत्मन उपहारवर्मणः । प्रतिकृतिं स्वरूपम् । इयं प्रतिकृतिः । अमुष्यै राजपत्न्यै । एनां प्रतिकृतिं निर्वर्ण्य । सा राजपत्नी । नियतं नियमेन । एवममुना प्रकारेण । वक्ष्यति वदिष्यति । ईदृश आकारो यस्येति स तथा । प्रतिब्रूहि प्रत्युत्तरं
देहि । सा वृद्धा । सनाथीकृतम् । नाथवत्कृतमित्यर्थः ।कुसुमधन्वनि मदने । यद्यस्मात् । ईदृश्येतत्सदृशी । वपुः श्रीः शरीरशोभा । न संनिधत्ते । नास्तीत्यर्थः । चित्रतरमतितरामाश्चर्यम् । तं पुरुषम् । नावैमि न जानामि । इहत्योऽत्रत्यः । ईदृशं निर्मिमीते करोति । मया चेति । स्मेरया सहासया । उदीरितमुक्तम् ।
सदृशं युक्तम् । मकरकेतुर्मदनः । एवं संभावयितुं सुन्दरत्वेन निदर्शयितुम् । अथ चेति तथापि । विस्तीर्णा विशाला । अर्णवनेमिः । पृथिवीत्यर्थः । अथ त्विति । 'तिष्ठत्वित्यभिधेयेऽस्मिन्नास्तामथ तु चाव्ययम्' इत्यजयः । रूपानुरूपं यथानुकू-
 
भूषणा ।
 
इत्यमरः । चित्रीयमाणा विस्मयमाना । 'नमोवरिवश्चित्रडः क्यच्' (३।१।१९ ) इति क्यजन्तादात्मनेपदम् । अथ तु । तिष्ठत्वित्यर्थः । 'तिष्ठत्वित्यभिधेयेऽस्मि-
 
लघुदीपिका ।
 
मत्तकाशिन्यै उत्तमस्त्रियै । 'वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी'। अथवा तथापि अथ तु । तिष्ठत्वित्यर्थः । 'तिष्ठत्वित्यभिधेयेऽस्मिन्नास्तामथ तु चाव्ययम्'
 
[^१]G. 'अस्मत्प्रतिकृतिरियं'.