2023-06-27 14:57:39 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१४६
 
दशकुमारचरितम् ।
 
[ तृतीयः
 
P
 
स्थापिता । किं भूयः कृत्यम्' इति । पुनरहमभि ]^१]लिख्यात्मनः प्रति-
कृतिम् ' इयममुष्यै नेया । नीतां चैनां निर्वर्ण्य सा नियतमेवं

वक्ष्यति — 'नन्वस्ति कश्चिदीदृशाकारः पुमान्' इति । प्रतिब्रूह्ये-

नाम् – 'यदि स्यात्ततः किम् ?' इति । तस्य यदुत्तरं सा दास्यति

'तदहमस्मि प्रतिबोधनीया' इति । सा ' तथा ' इति राजकुल-

मुपसंक्रम्य प्रतिनिवृत्ता मामेकान्ते न्यवेदयत् – 'वत्स दर्शि-

तोऽसौ चित्रपटस्तस्यै मत्तकाशिन्यै । चित्रीयमाणा चासौ भुवन-
मिदं सनाथीकृतं यद्देवेऽपि कुसुमधन्वनि नेदृशी वपुःश्रीः संनि-
धत्ते । चित्रमेतच्चित्रतरम् । न च तमवैमि य ईदृशमिहत्यो
निर्मिमीते । केनेदमालिखितम्' इत्यादृतवती व्याहृतवती च । मया
च स्मेरयोदीरितम् – 'देवि, सदृशमाज्ञापयसि । भगवान्मकर-
केतुरप्येवं सुन्दर इति न शक्यमेवं संभावयितुम् । अथ

विस्तीर्णेयमर्णवनेमिः । क्वचिदीदृशमपि रूपं दैवशक्त्या संभवेत् ।

अथ तु यद्येवंरूपो रूपानुरूपशिल्पशीलविद्याज्ञानकौशलो युवा

 
पदचन्द्रिका ।
 

 
संबोध्य । आत्मन उपहारवर्मणः । प्रतिकृतितिं स्वरूपम् । इयं प्रतिकृतिः । अमुष्यै
राजपत्न्यै । एनां प्रतिकृतितिं निर्वर्ण्य । सा राजपत्नी । नियतं नियमेन । एवममुना
प्रकारेण । वक्ष्यति वदिष्यति । ईदृश आकारो यस्येति स तथा । प्रतिब्रूहि प्रत्युत्तरं

देहि । सा वृद्धा । सनाथीकृतम् । नाथवत्कृतमित्यर्थः । कुसुमधन्वनि मदने । यद्य-
स्मात् । ईदृश्येतत्सदृशी । वपुः श्रीः शरीरशोभा । न संनिधत्ते । नास्तीत्यर्थः ।
चित्रतरमतितरामाश्चर्यम् । तं पुरुषम् । नावैमि न जानामि । इहत्योऽत्रत्यः ।
ईदृशं निर्मिमीते करोति । मया चेति । स्मेरया सहासया । उदीरितमुक्तम् ।

सदृशं युक्तम् । मकरकेतुर्मदनः । एवं संभावयितुं सुन्दरत्वेन निदर्शयितुम् । अथ
चेति तथापि । विस्तीर्णा विशाला । अर्णवनेमिः । पृथिवीत्यर्थः । अथ त्विति ।
'तिष्ठत्वित्यभिधेयेऽस्मिन्नास्तामथ तु चाव्ययम्' इत्यजयः । रूपानुरूपं यथानुकू-

 
भूषणा ।
 

 
इत्यमरः । चित्रीयमाणा विस्मयमाना । 'नमोवरिवश्चित्रडः क्यच्' (३।१।१९ )
इति क्यजन्तादात्मनेपदम् । अथ तु । तिष्ठत्वित्यर्थः । 'तिष्ठत्वित्यभिधेयेऽस्मि-

 
लघुदीपिका ।
 

 
मत्तकाशिन्यै उत्तमस्त्रियै । 'वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी' । अथवा
तथापि अथ तु । तिष्ठत्वित्यर्थः । 'तिष्ठत्वित्यभिधेयेऽस्मिन्नास्तामथ तु चाव्ययम्'
पाठा० –

 
[^
]G. 'अस्मत्प्रतिकृतिरियं'.