2023-09-05 10:21:55 by Lakshmainarayana achar

This page has been fully proofread twice.

मत्प्रयुक्तैर्गन्धमाल्यैः । उपजनय चासमानदोषनिन्दादिना स्वभर्तरि
द्वेषम् । अनुरूपभर्तृगामिनीनां च वासवदत्तादीनां वर्णनेन ग्राह-
यानुशयम् । अवरोधनान्तरेषु च राज्ञो विलसितानि सुगूढान्यपि
प्रयत्नेनान्विष्य प्रकाशयन्ती मानमस्या वर्धय' इति पुनरिम-म्बामवोचम् – "इत्थमेव त्वयाप्यनन्यव्यापारया नृपाङ्गनासावुप-
स्थातव्या । प्रत्यहं च यद्यत्तत्र वृत्तं तदस्मि त्वयैव बोध्यः ।
मदुक्ता पुनरियमुदर्कस्वादुनोऽस्मत्कर्मणः प्रसाधनाय च्छायेवान-
पायिनी कल्पसुन्दरीमनुवर्तताम्' इति । ते च तमर्थं तथैवान्व-
तिष्ठताम् ।
केषुचिद्दिनेषु गतेष्वाचष्ट मां मदम्बा 'वत्स, माधवीव
[^१]पिचुमन्दाश्लेषिणी यथासौ शोच्यमात्मानं मन्येत तथोपपाद्य
 
पदचन्द्रिका ।
 
मत्प्रयुक्तैर्मत्प्रेषितैः । उपजनयोत्पादय । असमानोऽतुल्य इति । आदिशब्देन शकुन्तलादमयन्त्यादयो ग्राह्याः । अनुशयं पश्चात्तापम् । अवरोधनान्तरेष्वपरस्त्रीषु । राज्ञो विकटवर्मणः । विलसितानि विलासान् । प्रकाशयन्ती प्रकटयन्ती । अस्याः कल्पसुन्दर्याः । अनन्यव्यापारा त्यक्तसर्वान्यकार्या । असौ नृपाङ्गना । उपस्थातव्या
सेवनीया । तत्र वृत्तं तत्र जातम् । अस्मीत्यहमर्थेऽव्ययम् । त्वयैव वृद्धयैव । मदुक्तेयं पुष्करिका । उदर्क उत्तरं फलम् ।स्वादु मधुरं यत्कर्म तस्य प्रसाधनाय करणाय । अनपायिनी नाशरहिता । कल्पसुन्दरी राजपत्नी । ते च तापसी तत्कन्या च । माधवी वासन्ती । 'वासन्ती माधवी लता' इत्यमरः । पिचुमन्दो निम्बवृक्षः । 'पिचुमन्दश्च निम्बे' इत्यमरः । शोच्यं शोचनीयम् । उपपाद्य सयुक्तिकं
 
भूषणा ।
 
रिका' इत्यमरः । पुंसि भर्तृदारकः । यदत्र वक्तव्यं तदुक्तं प्राक् । अवरोधनम् । 'भूभुजामन्तःपुरं स्यादवरोधनम्' इत्यमरः । तात्स्थ्यात्ताच्छब्द्यम् । मानं कोपम् । 'मानः कोपो मन्युर्देधा प्रणयेर्ष्योस्तु ( ? ) मेदतः । द्वयोः प्रणयमानः स्यात्कोपो यः कारणं विना । यत्पुरः प्रियया सङ्गे दृष्टेर्ष्यानुमितेषु ते । 'ईर्ष्या मानो भवेत्स्त्रीणाम्' इत्यादि रसरत्नहारः । अम्बां मातरम् । 'अम्बा
माता' इत्यमरः । उदर्कस्वादुन उत्तरफलस्वादुनः । 'उदर्कः फलमुत्तरम्'
 
[^१]G. 'पिचुमर्दा'.
१३ द० कु०