2023-09-05 10:22:02 by Lakshmainarayana achar

This page has been fully proofread twice.

मे मातरमवादिषम् – 'अम्ब, जाल्मस्य विकटवर्मण: कच्चिदन्तः-
पुरवृत्तान्तमभिजानासि' इत्यनवसितवचन एव मयि काचिदङ्गना
प्रत्यदृश्यत । तां चावेक्ष्य सा मे धात्री हर्षाश्रु [^१]कुण्ठितकण्ठमा-
चष्ट- - 'पुत्रि पुष्करिके, पश्य भर्तृदारकम् । अयमसावकृपया
मया वने परित्यक्तः पुनरप्येवमागतः' इति । सा तु हर्षनिर्भर -
निपीडिता चिरं प्ररुद्य बहु विलप्य शान्ता पुनः स्वमात्रा राजा-
न्तःपुरवृत्तान्ताख्याने न्ययुज्यत । उक्तं च तया—–'कुमार,
कामरूपेश्वरस्य कलिन्दवर्मनाम्नः कन्या कल्पसुन्दरी कलासु रूपे
चाप्सरसोऽप्यतिक्रान्ता पतिमभिभूय वर्तते । तदेकवल्लभः स तु
बह्ववरोधोऽपि विकटवर्मा' इति । तामवोचम् – 'उपसर्पैनां
 
पदचन्द्रिका ।
 
कालनियमकृत्यम् । तां वृद्धाम् । अवादिषमवोचम् । जाल्मस्य मूढस्य । 'जडो जाल्मश्च निर्बुद्धौ स्तब्धेऽनालोच्यकारिणि' इति वैजयन्ती । 'कच्चित्प्रश्नप्रवेदने' इति भागुरिः । अनवसितवचनेऽसमापितवचने । तामङ्गनाम् । धात्र्युपमाता । हर्षाच्चानन्दाश्रु तेन कुण्ठितोऽवरुद्धः कण्ठो यथा तथेति क्रियावि-
शेषणम् । पुत्रि कन्ये । भर्तुः प्रहारवर्मणो दारकमपत्यम् । 'दारको भेदकेऽपत्ये' इति विश्वः । अकृपया निर्दयया । सा पुष्करिकाख्या विकटवर्मान्तःपुरचारिणी तापसीकन्या । राजान्तःपुरं विकटवर्मान्तःपुरं तस्य वृत्तान्तो वार्ता तदाख्याने तत्कथने । न्ययुज्यत नियोजिता । कलासु चतुःषष्टिकलासु । रूपे कान्तौ । अप्सरसोऽप्यतिक्रान्तोत्कृष्टेत्यर्थः । अभिभूय पराभूय । तदेकवल्लभः सैवैका वल्लभा यस्येति स तथा । बह्ववरोधोऽपि बहुपत्नीकोऽपि । तां पुष्करिकाम् । एनां कल्पसुन्दरीम् ।
 
भूषणा ।
 
शीतलः शीतः' इत्यमरः । अवसायितं समापितम् । जाल्मस्य क्षुल्लकस्य । 'निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः' इत्यमरः । कच्चित्प्रश्ने । 'कच्चित् कामप्रवेदने' इत्यमरः । भर्तृदारकं राजपुत्रम् । राजा भट्टारको देवस्तत्सुता भर्तृदा-
 
लघुदीपिका ।
 
जडीकृतः । 'तुषार: शीतलो जडः' इति वैजयन्ती । अवसायितं
समापितम् । जाल्मस्य मूढस्य । 'जडो जाल्मश्च निर्बुद्धौ । स्तब्धेऽनालोच्यकारिणि' इति वैजयन्ती । 'कच्चित्प्रश्नप्रवेदने' इति भागुरिः ।
 
[^१]G. 'कुण्ठ', 'कुञ्चित'.