This page has not been fully proofread.

१४४
 
दशकुमारचरितम् ।
 
[ तृतीयः
 
मे मातरमवादिषम् – 'अम्ब, जाल्मस्य विकटवर्मण: कञ्चिदन्तः-
पुरवृत्तान्तमभिजानासि' इत्यनवसितवचन एव मयि काचिदङ्गना
प्रत्यदृश्यत । तां चावेक्ष्य सा मे धात्री हर्षाश्रुर्कुण्ठितकण्ठमा-
ऋष्ट- - 'पुत्रि पुष्करिके, पश्य भर्तृदारकम् । अयमसावकृपया
मया वने परित्यक्तः पुनरप्येवमागतः' इति । सा तु हर्षनिर्भर -
निपीडिता चिरं प्ररुद्य बहु विलप्य शान्ता पुनः स्वमात्रा राजा-
न्तःपुरवृत्तान्ताख्याने न्ययुज्यत । उक्तं च तया—–'कुमार,
कामरूपेश्वरस्य कलिन्दवर्मनाम्नः कन्या कल्पसुन्दरी कलासु रूपे
चाप्सरसोऽप्यतिक्रान्ता पतिमभिभूय वर्तते । तदेकवल्लभः स तु
बह्ववरोधोऽपि विकटवर्मा' इति । तामवोचम् – 'उपसपैनां
 
पदचन्द्रिका ।
 
कालनियमकृत्यम् । तां वृद्धाम् । अवादिषमवोचम् । जाल्मस्य मूढस्य । 'जडो
जाल्मच निर्बुद्धौ स्तब्धेऽनालोच्यकारिणि' इति वैजयन्ती । कञ्चिदिति प्रश्न ।
'कञ्चित्प्रश्न
प्रवेदने' इति भागुरिः । अनवसितवचनेऽसमापितवचने । तामङ्गनाम् ।
धात्र्युषमाता । हर्षाच्चानन्दाश्रु तेन कुण्ठितोऽवरुद्धः कण्ठो यथा तथेति क्रियावि-
शेषणम् । पुत्रि कन्ये । भर्तुः प्रहारवर्मणो दारकमपत्यम् । 'दारको भेदकेऽपत्ये'
इति विश्वः । अकृपया निर्दयया । सा पुष्करिकाख्या विकटवर्मान्तः पुरचारिणी
तापसीकन्या । राजान्तःपुरं विकटवर्मान्तःपुरं तस्य वृत्तान्तो वार्ता तदाख्याने
तत्कथने । न्ययुज्यत नियोजिता । कलासु चतुःषष्टिकलासु । रूपे कान्तौ । अप्सर-
सोऽप्यतिक्रान्तोत्कृष्टेत्यर्थः । अभिभूय पराभूय । तदेकवल्लभः सैवैका वल्लभा यस्येति
स तथा । बह्ववरोधोऽपि बहुपत्नीकोऽपि । तां पुष्करिकाम् । एनां कल्पसुन्दरीम् ।
 
भूषणा ।
 
शीतलः शीतः' इत्यमरः । अवसायितं समापितम् । जाल्मस्य क्षुल्लकस्य ।
'निहीनोऽपसदो जाल्मः क्षुल्लकचेतरश्च सः' इत्यमरः । कच्चित्प्रश्ने । 'कञ्चित्
कामप्रवेदने' इत्यमरः । भर्तृदारकं राजपुत्रम् । राजा भट्टारको देवस्तत्सुता भर्तृदा-
लघुदीपिका ।
 
जडीकृतः । 'तुषार: शीतलो जडः' इति वैजयन्ती । अवसायितं
समापितम् । जाल्मस्य मूढस्य । 'जडो जात्मश्च निर्बुद्धौ । स्तब्धेऽनालो-
व्यकारिणि' इति वैजयन्ती । 'कच्चित्प्रश्नप्रवेदने' इति भागुरिः ।
 
पाठ० - १ 'कुण्ठ', 'कुञ्चित'.