2023-09-05 10:22:09 by Lakshmainarayana achar

This page has been fully proofread twice.

मानपीनबाहुर्भवानपारमेतच्छोकसागर [^१]मद्योत्तारयितुं स्थितः ।
अहो, महद्भागधेयं देव्याः प्रियंवदायाः' इति हर्षनिर्भरा स्नानभो-
जनादिना मामुपाचरत् । अशिश्रियं चास्मिन्मठैकदेशे निशि
कटशय्याम् । अचिन्तयं च 'विनोपधिनायमर्थो न साध्यः ।स्त्रियश्चोपधीनामुद्भवक्षेत्रम् । अतोऽन्तःपुरवृत्तान्तमस्या अवगम्य
तद्द्वारेण किंचिज्जालमाचरेयम्' इति ।
[^२]चिन्तेयत्येव मयि महार्णवोन्मग्नमार्तण्डतुरंगमश्वासरयावधू-
तेव व्यावर्तत त्रियामा । समुद्रगर्भवासजडीकृत इव मन्दप्रतापो
[^३]दिवसकरः प्रादुरासीत् । उत्थायावसायितदिनमुखनियमविधिस्तां
 
पदचन्द्रिका ।
 
प्रहारवर्माधीनाः । 'अधिरीश्वरे' । 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी' । यतो यस्मात् । प्रलम्बमानौ दीर्घौ पीनौ पुष्टौ बाहू यस्येति स तथा । एतच्छोकसागरं प्रहारवर्मशोकसमुद्रम् । उपाचरदु- पचारमकरोत् । अशिश्रियमाश्रितवान् । कटशय्यां तृणास्तरणम् । अचिन्तयं चिन्तितवान् । उपधिना कपटेन । 'कपटोऽस्त्री
व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । उद्भवक्षेत्रमुत्पत्तिस्थानम् । अस्या वृद्धायाः सकाशात् । जालं कपटम् । 'जालं समूह आनाये गवाक्षे कपटेऽपि च' इति वैजयन्ती ॥
चिन्तयत्येवेति । महार्णवोन्मग्नः समुद्रमध्यान्नि:सृतो यो मार्तण्डः
सूर्यः । 'विकर्तनार्कमार्तण्ड - ' इत्यमरः । तत्तुरंगमा अश्वाः । 'घोटके वीतितुरगतुरंगाश्वतुरंगमाः' इत्यमरः । तेषां श्वासरयस्तेनावधूतेव कम्पितेव । त्रियामा रात्रिः । 'त्रियामा क्षणदा क्षपा' इत्यमरः । समुद्रगर्भवासः समुद्रमध्यवसतिः ।
जडीकृतः शीतलीकृतः । 'तुषार : शीतलो जडः' इति वैजयन्ती । मन्दप्रतापः स्वल्पप्रतापः । दिवसकरः सूर्यः । अवसायितः समापितः । दिनमुखनियमविधिः प्रातः-
 
भूषणा ।
 
प्रहारवर्माधीनाः । 'अधिरीश्वरे' (१।४।९७ ) इति कर्मप्रवचनीयसंज्ञा । 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी (२।३।९) इति सप्तमी । भागधेयं भाग्यम् । 'दैवं दिष्टं भागधेयम्' इत्यमरः । कटशय्यां तृणशय्याम् । 'कट: समयबन्धेऽपि तृणेऽपि मृतकेऽपि च' इति विश्वः । उपधिना कपटेन । 'कपटोऽस्त्री व्याजदम्भोपध-
यश्छद्मकैतवे' इत्यमरः । जालं कपटम् । 'जालं समूह आनाये गवाक्षे कपटेऽपि च' इति वैजयन्ती । जडीकृत इव शीतलीकृत इव । शिशिरो जड: । 'तुषार:
 
लघुदीपिका ।
 
'अधिरीश्वरे' (१।४।९७ ) । 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी' । ( २।३।९ ) उपधिना कपटेन । 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' । जालं कपटम् । 'जालं समूह आनाये गवाक्षे कपटेऽपि च' इति वैजयन्ती ।
 
[^१]G. 'मद्योत्तारयिता'
[^२]G. 'चिन्तापन्न एवम्'.
[^३]G. 'दिवाकरः