This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिका सहितम् ।
 
१४३
 
स्थितः ।
 
मानपीनबाहुर्भवानपारमेतच्छोकसागरमंद्योत्तारयितुं
अहो, महद्भागधेयं देव्याः प्रियंवदायाः' इति हर्षनिर्भरा स्नानभो-
जनादिना मामुपाचरत् । अशिश्रियं चास्मिन्मठैकदेशे निशि
कटशय्याम् । अचिन्तयं च 'विनोपधिनायमर्थो न साध्यः 1
स्त्रियचोपधीनामुद्भवक्षेत्रम् । अतोऽन्तः पुरवृत्तान्तमस्या अवगम्य
तहारेण किंचिज्जालमाचरेयम्' इति ।
 
चिन्तेयत्येव मयि महार्णवोन्मग्नमार्तण्डतुरंगमश्वासरयावधू-
तेव व्यावर्तत त्रियामा । समुद्रगर्भवासजडीकृत इव मन्दप्रतापो
दिवसकरः प्रादुरासीत् । उत्थायावसायितदिनमुखनियमविधिस्तां
 
पदचन्द्रिका ।
 
प्रहारवर्माधीनाः । 'अधिरीश्वरे' । 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी' ।
यतो यस्मात् । प्रलम्बमानौ दीर्घौ पीनौ पुष्टौ बाहू यस्येति स तथा । एतच्छोक-
सागरं प्रहारवर्मशोकसमुद्रम् । उपाचरटुपचारमकरोत् । अशिश्रियमाश्रितवान् ।
कटशय्यां तृणास्तरणम् । अचिन्तयं चिन्तितवान् । उपधिना कपटेन । 'कपटोऽस्त्री
व्याजदम्भोपधयश्छद्मकैतवे' इत्यमरः । उद्भवक्षेत्रमुत्पत्तिस्थानम् । अस्या वृद्धायाः
सकाशात् । जालं कपटम् । 'जालं समूह आनाये गवाक्षे कपटेऽपि च' इति वैजयन्ती ॥
 
चिन्तयत्येवेति । महार्णवोन्मग्नः समुद्रमध्यान्नःसृतो यो मार्तण्डः
सूर्यः । 'विकर्तनार्कमार्तण्ड - ' इत्यमरः । तत्तुरंगमा अश्वाः । 'घोटके वीतितुरग-
तुरंगाश्वतुरंगमाः' इत्यमरः । तेषां श्वासरयस्तेनावधूतेव कम्पितेव । त्रियामा-
रात्रिः । 'त्रियामा क्षणदा क्षपा' इत्यमरः । समुद्रगर्भवासः समुद्रमध्यवसतिः ।
जडीकृतः शीतलीकृतः । 'तुषार : शीतलो जडः' इति वैजयन्ती । मन्दप्रतापः
स्वल्पतापः । दिवसकरः सूर्यः । अवसायितः समापितः । दिनमुखनियमविधिः प्रातः-
भूषणा ।
 
प्रहारवर्माधीनाः । 'अधिरीश्वरे' (१।४।९७ ) इति कर्मप्रवचनीयसंज्ञा । 'यस्मादधिकं
यस्य चेश्वरवचनं तत्र सप्तमी (२१३१९) इति सप्तमी । भागधेयं भाग्यम् । 'दैवं दिष्टं
भागधेयम्' इत्यमरः । कटशय्यां तृणशय्याम् । 'कट: समयबन्धेऽपि तृणेऽपि
मृतकेऽपि च इति विश्वः । उपधिना कपटेन । 'कपटोऽस्त्री व्याजदम्भोपध-
यश्छद्मकैतवे' इत्यमरः । जालं कपटम् । 'जालं समूह आनाये गवाक्षे कपटेऽपि
च' इति वैजयन्ती । जडीकृत इव शीतलीकृत इव । शिशिरो जड: । 'तुषार:
 
लघुदीपिका ।
 
'अधिरीश्वरे' (१।४।९७ ) । 'यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ।
(
( २।३।९ ) उपधिना कपटेन । 'कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे' । जालं
कपटम् । 'जालं समूह आनाये गवाक्षे कपटेऽपि च इति वैजयन्ती !
पाठा०-१ 'मद्योत्तारयिता' २ 'चिन्तापत्र एवम्'. ३ 'दिवाकरः