2023-09-05 10:22:20 by Lakshmainarayana achar

This page has been fully proofread twice.

निगूढमभ्यधाम् – 'यद्येवमम्ब, समाश्वसिहि । नन्वस्ति कश्चिन्मु-
निस्त्वया तदवस्थया पुत्राभ्युपपादनार्थं याचितस्तेन स लब्धो वर्धि-
तश्च । वार्तेयमतिमहती । किमनया । सोऽहमस्मि । शक्यश्च
मयासौ विकटवर्मा यथाकथंचिदुपश्लिष्य व्यापादयितुम् । अनुजाः
पुनरतिबहवः, तैरपि घटन्ते पौरजानपदाः । मां तु न कश्चिदिहत्य
ईदृक्तया जनो जानाति । पितरावपि [^१]तावन्मां न संविदाते,
किमुतेतरे । [^२]तमेनमर्थमुपायेन साधयिष्यामि' इत्यगादिषम् । सा तु वृद्धा सरुदितं परिष्वज्य मुहुः शिरस्युपाघ्राय प्रस्नुतस्तनी सगद्गदमगदत्– 'वत्स, चिरं जीव । भद्रं तव । प्रसन्नोऽद्य भगवा-
विधिः । अद्यैव प्रहारवर्मण्यधि विदेहा जाताः, यतः प्रलम्ब-
 
पदचन्द्रिका ।
 
स्त्रियाम्' इत्यमरः । निगूढं गुप्तम् । समाश्वसिह्याश्वासनं लभस्वेत्यर्थः । स बालः । लब्धः प्राप्तः । वर्धितो वृद्धिं प्रापितः । सोऽहमस्मीत्यात्मनिरूपणम् । उपश्लिष्य संनिधानं प्राप्य । व्यापादयितुं हन्तुम् । 'व्यापादनं हिंसनं च क्षरणं मारणं तथा'
इति भागुरिः । घटन्ते मिलिष्यन्ति । इहत्यः । 'अव्ययात्त्यप्' (४।२।१०४ ) इति त्यप् । ईदृशस्य भावस्तथा तया । पितरावपि मातापितरावपि । न संविदाते न जानीतः । तमेनमर्थं शत्रुमारणरूपम् । उपायेन प्रकारान्तरेण । परिष्वज्यालिङ्ग्य ।
उपाघ्रायाघ्राणं कृत्वा । प्रस्नुतस्तनी क्षरद्दुग्धस्तनी । भद्रं कल्याणम् । प्रहारवर्मण्यधि
 
भूषणा ।
 
प्रवृद्धमन्युर्बहुलीभूतशोका । 'मन्युशोकौ तु शुक्स्त्रियाम्' इत्यमरः । निगूढं गुप्तम् । अभ्युपपादनं संवर्धनम् । 'संवर्धनं छेदनं वाभ्युपपत्तिश्च पोषणम्' इत्यजयः । व्यापादयितुं हन्तुम् । 'व्यापादनं हिंसनं च क्षरणं मारणं तथा' इति भागुरिः । अनुजा विकटवर्मणः कनिष्ठा भ्रातरः । तैरपि घटन्ते अनुजैः साकं पौरजना घटन्ते मिलन्ति । एवं तस्मिन्हतेऽपि तस्यानुजा राज्यं करिष्यन्ति । तथा च मत्कृतं व्यापादनं व्यर्थमेव भवेदिति भावः । पितरावपि
तावत् । 'यावत्तावच्च साकल्ये' इत्यमरः । संविदाते जानीतः । प्रहारवर्मण्यधि
 
लघुदीपिका ।
 
संवर्धनम् । 'संवर्धनं छेदनं वाभ्युपपत्तिश्च पोषणम्' इत्यजयः । व्यापादयितुं हन्तुम् । 'व्यापादनं हिंसनं च क्षरणं मारणं तथा' इति भागुरिः । पितरावपि तावत् । 'यावत्तावच्च साकल्ये' । संविदाते जानीतः । प्रहारवर्मण्यधि प्रहारवर्माधीनाः ।
 
[^१]G. 'यावन्माम्'. 'तावदित्थम्'.
[^२]G. 'तदेनम्'.