2023-06-26 16:01:27 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१४२
 
दशकुमारचरितम् ।
 
[ तृतीयः
 
निगूढमभ्यधाम् – 'यद्येवमम्ब, समाश्वसिहि । नन्वस्ति कश्चिन्मु-

निस्त्वया तदवस्थया पुत्राभ्युपपादनार्थं याचितस्तेन स लब्धो वर्धि-

तश्च । वार्तेयमतिमहती । किमनया । सोऽहमस्मि । शक्यश्

मयासौ विकटवर्मा यथाकथंचिदुपश्लिष्य व्यापादयितुम् । अनुजाः

पुनरतिबहवः, तैरपि घटन्ते पौरजानपदाः । मां तु न कश्चिदिहत्य
ईंह

ईदृ
क्तया जनो जानाति । पितरावपि [^१]तावन्मां न संविदाते,

किमुतेतरे । तै[^२]तमेनमर्थमुपायेन साधयिष्यामि' इत्यगादिषम् । सा तु
वृद्धा सरुदितं परिष्वज्य मुहुः शिरस्युपाघ्राय प्रस्तुनुतस्तनी सगद्ग-
दु
मगदत्– 'वत्स, चिरं जीव । भद्रं तव । प्रसन्नोऽद्य भगवा-

विधिः । अद्यैव प्रहारवर्मण्यधि विदेहा जाताः, यतः प्रलम्ब-

 
पदचन्द्रिका ।
 

 
स्त्रियाम्' इत्यमरः । निगूढं गुप्तम् । समाश्वसिह्याश्वासनं लभस्वेत्यर्थः । स बालः ।
लब्धः प्राप्तः । वर्धितो वृद्धिं प्रापितः । सोऽहमस्मीत्यात्मनिरूपणम् । उपश्लिष्य
संनिधानं प्राप्य । व्यापादयितुं हन्तुम् । 'व्यापादनं हिंसनं च क्षरणं मारणं तथा
'
इति भागुरिः । घटन्ते मिलिष्यन्ति । इहत्यः । 'अव्ययात्त्यप्' (४१०४ ) इति
त्यप् । ईदृशस्य भावस्तथा तया । पितरावपि मातापितरावपि । न संविदाते न
जानीतः । तमेनमर्थं शत्रुमारणरूपम् । उपायेन प्रकारान्तरेण । परिष्वज्यालिङ्ग्य ।

उपाघ्रायाघ्राणं कृत्वा । प्रसुस्नुतस्तनी क्षरद्दुग्धस्तनी । भद्रं कल्याणम् । प्रहारवर्मण्यधि
 

 
भूषणा ।
 

 
प्रवृद्धमन्युर्बहुलीभूतशोका । 'मन्युशोकौ तु शुक्यिास्त्रियाम्' इत्यमरः । निगूढं गुप्तम् ।
अभ्युपपादनं संवर्धनम् । 'संवर्धनं छेदनं वाभ्युपपत्तिश्च पोषणम्' इत्यजयः ।
व्यापादयितुं हन्तुम् । 'व्यापादनं हिंसनं च क्षरणं मारणं तथा' इति
भागुरिः । अनुजा विकटवर्मणः कनिष्ठा भ्रातरः । तैरपि घटन्ते अनुजैः
साकं पौरजना घटन्ते मिलन्ति । एवं तस्मिन्हतेऽपि तस्यानुजा राज्यं
करिष्यन्ति । तथा च मत्कृतं व्यापादनं व्यर्थमेव भवेदिति भावः । पितरावपि

तावत् । 'यावत्तावच्च साकल्ये' इत्यमरः । संविदाते जानीतः । प्रहारवर्मण्यधि
 

 
लघुदीपिका ।
 

 
संवर्धनम् । 'संवर्धनं छेदनं वाभ्युपपत्तिश्च पोषणम्' इत्यजयः । व्यापादयितुं हन्तुम् ।
'व्यापादनं हिंसनं च क्षरणं मारणं तथा' इति भागुरिः । पितरावपि तावत् ।
'यावत्तावञ्च्च साकल्ये' । संविदाते जानीतः । प्रहारवर्मण्यधि प्रहारवर्माधीनाः ।
 
पाठा०-

 
[^
]G. 'यावन्माम्'. 'तावदित्म्'.
[^
]G. 'तदेनम्'.