2023-09-05 10:22:27 by Lakshmainarayana achar

This page has been fully proofread twice.

न्द्रस्यैव कोऽपि सेवकः कारणविलम्बी तन्मार्गानुसारी जातः ।
सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्तेन श्रोत्रमस्य देव्याः
प्रियंवदायाश्चादहाव ।
स च राजा दिष्टदोषा [^१]ज्ज्येष्ठपुत्रैश्चिरं विगृह्य पुनरसहिष्णु-तयातिमात्रं चिरं प्रयुध्य बद्धः । देवी च बन्धनं गमिता ।
दग्धा पुनरहमस्मिन्नपि वार्धके हतजीवितमपारयन्ती हातुं
प्रव्रज्यां किलाग्रहीषम् । दुहिता तु मम [^२]हतजीविताकृष्टा विकटवर्म [^३]महादेवीं कल्पसुन्दरीं किलाशिश्रियत् । तौ चेद्राजपुत्रौ निरुपद्रवावेवावर्धिष्येताम्, इयता कालेन तवेमां वयोवस्थामस्प्रक्ष्येताम् । तयोश्च सतोर्न दायादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुः' इति [^४]प्रमन्युरभिरुरोद । श्रुत्वा च तापसीगिरमहमपि प्रवृद्धबाष्पो
 
पदचन्द्रिका ।
 
न्द्रस्य प्रहारवर्मणः कारणविलम्बी प्रयोजनविलम्बितः । भर्तुर्मिथिलेन्द्रस्य । अन्तिकं समीपम् । अस्य प्रहारवर्मणः । अदहाव दहतःस्म ॥
स राजा प्रहारवर्मा । दिष्टं दैवम् । विगृह्य विरोध्य । अतिमात्रमत्यन्तं । देवी प्रियंवदा । हतजीवितं दुष्टजीवितम् । अपारयन्त्यशक्नवती । 'पार तीर कर्मसमाप्तौ इति धातोः । हातुं त्यक्तुम् । प्रव्रज्यां संन्यासम् । विकटवर्मा प्रहारवर्मज्येष्ठभ्रातृपुत्रः । महादेवीं पट्टमहिषीम् । निरुपद्रवावुपद्रवरहितौ । अस्प्रक्ष्येतां स्पृष्टौ भविष्यतः । तयोः पुत्रयोः । सतोर्विद्यमानयोः । दायादा बान्धवाः । 'दायादौ सुतबान्धवौ' इत्यमरः । प्रसह्यकारिणो बलात्कारकारिणः । प्रमन्युः प्रकृष्टशोका । 'मन्युशोकौ तु शुक्
 
भूषणा ।
 
स्वभर्तुरिति । मिथिलापतेरित्यर्थः । सार्थघाते संघभ्रंशे । कारणविलम्बी कारणेन प्रयोजनेन विलम्बी । अपारयन्त्यशक्नुवती । 'पार तीर कर्मसमाप्तौ' । हातुं त्यक्तुम् । हतजीवितमधमं वृथाजीवितं हातुं त्यक्तुमशक्नुवतीत्यन्वयः । आकृष्टारिणा बलात्कारेण स्ववशीकृता । विकटवर्ममहादेवीं विकटवर्मणो मैथिलेन्द्रज्येष्ठभ्रातुः पुत्रस्य पत्नीम् । अस्प्रक्ष्येताम् । 'स्पृश संस्पर्शने' लङ् 'अनुदात्त ( ) इत्यात्मनेपदम् । दायादा बान्धवाः । 'दायादौ सुतबान्धवौ' इत्यमरः ।
 
लघुदीपिका ।
 
'पार सामर्थ्ये' इति धातुः । हातुं त्यक्तुम् । दायादा बान्धवाः । 'दायादौ सुतबान्धवौ । प्रमन्युः प्रकृष्टशोका । 'मन्युशोकौ तु शुक्स्त्रियाम् । अभ्युपपादनं
 
 
 
[^१]G.'ज्येष्ठभ्रातृपुत्रैः'.
[२]G.'हतजीविकाकृष्टा'.
[^३]G.'महिषीं
[^४]G.'प्रवृद्धमन्युः',