This page has not been fully proofread.

१४०
 
दशकुमारचरितम् ।
 
[ तृतीयः
 
पाणिभ्रष्टः स बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।
तच्छवाकर्षिणश्च व्याघ्रस्यासूनिषुरिष्वसनयन्त्रमुक्तः क्षणादलिक्षत् ।
भिल्लदारकैः स बालोऽपाहारि । सा त्वहं मोहसुप्ता केनापि
वृष्णिपालेनोपनीय स्वं कुटीरमावेश्य कृपयोपक्रान्तव्रणा स्वस्थी-
भूय स्वभर्तुरन्तिकमुपतिष्ठासुरसहायतया यावव्याकुलीभवामि
तावन्ममैव दुहिता सह यूना केनापि तमेवोद्देशमागमत् । सा
भृशं रुरोद । रुदितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपु-
त्रस्य किरातभर्तृहस्तगमनम्, आत्मनश्च केनापि वनचरेण व्रण-
विरोपणम्, स्वस्थायात्र पुनस्तेनोपयन्तुं चिन्तिताया निकृष्टजातिसं-
सर्गवैक्कुव्यात्प्रत्याख्यानपारुष्यम्, तदक्षमेण चामुना विविक्ते विपिने
स्वशिरःकर्तनोद्यमम्, अनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो
हननम्, आत्मनश्चोपयमनमित्यकथयत् । स तु पृष्टो मैथिले-
de
 
पदचन्द्रिका ।
 
अगाहिष्यालोडितवती । शार्दूलो व्याघ्रः । कपिलाशवस्य मृतगोः । क्रोडो
वक्षःस्थलम् । 'क्रोडोरो हृदयस्थानम्' इति हैमः । तच्छवं कपिलाशवम् । इषु-
र्बाणः । इष्वसनं धनुः । अलिक्षत् । आच्छादयामासेत्यर्थः । वृष्णिपालेन गोपालेन
'वृष्णिर्यदुषु गोपेषु' इत्यजयः । अविपालेनेति वा । 'भेषवृष्णय एडक' इत्यमरः ।
कुटीरमल्पगृहम् । 'कुटीशमीशुण्डाभ्यो रः' (५।३१८८ ) इति र । उपान्तव्रणा
चिकित्सितक्षता । उपतिष्ठासुर्गन्तुमिच्छुः । तमेवोद्देशं कुटीर प्रदेशम् । सा मत्कन्या ।
सार्थघाते संघभ्रंशे । किरातभर्तुर्भिल्लप्रभोः । व्रणविरोपणं कृतसमीकरणम् । तेन
वनचरेण । उपयन्तुं परिणेतुम् । प्रत्याख्याने दूरीकरणे पारुष्यं काठिन्यम् । तद-
क्षमेण पारुष्यासहेन । विविक्ते विजने । शिरःकर्तनं शिरश्छेदः । अनेन यूना सह
स्थितेन तरुणेन । हननँ मारणम् । उपयमनं विवाहः । स तु परिणेता । मैथिले-
-
 
भूषणा ।
 
रस्य । क्रोडरन्ध्रं भुजान्तररन्ध्रम् । व्याघ्रस्यासून् व्याघ्रस्य प्राणान् । इष्व-
सनं धनुः । 'धनुश्चापौ धन्वशरासनकोदण्डकार्मुकम् । इष्वासोऽपि ' इत्यमरः ।
अलिक्षद्धृतवान् ।वृष्णिपालो गोपालः । 'वृष्णिर्यदुषु गोपेषु' इत्यजयः 1
लघुदीपिका ।
 
'वृष्णिर्यदुषु गोपेषु' इत्यजयः । सार्थघाते संघभ्रंशे । अपारयन्त्यशक्नुवती