2023-09-05 10:22:40 by Lakshmainarayana achar

This page has been fully proofread twice.

तस्मिन्नेव च समये मालवेन मगधराजस्य महज्जन्यमजनि । तत्र
लेशतोऽपि [^१]दुर्लक्षां गतिमगमन्मगधराजः । [^२]मैथिलेन्द्रस्तु मालवेन्द्रप्रयत्नप्राणितः स्वविषयं प्रतिनिवृत्तो ज्येष्ठस्य संहारवर्मणः सुतैर्विकटवर्मप्रभृतिभिर्व्याप्तं राज्यमाकर्ण्य स्वस्त्रीयात्सुह्म- पतेर्दण्डावयवमादित्सुरटवीपथमवगाह्य लुब्धकलुप्तसर्वस्वोऽभूत् । तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिनी वनचरशरवर्षभयपलायिता वनमगाहिषि । तत्र च मे शार्दूलनखावलीढनिपतितायाः
 
पदचन्द्रिका ।
 
वदा प्रहारवर्मस्त्री । भर्त्रा प्रहारवर्मणा सह । पुष्परं वसुमतीभर्तू राजहंसस्य नगरम् । अगमत् । जगामेत्यर्थः । तस्मिन्निति । मालवेनान्येन राज्ञा । मगधराजस्य राजहंसस्य । जन्यं युद्धम् । 'युद्धमायोधनं जन्यम्' इत्यमरः । लेशतः किंचित् । सार्वविभक्तिकस्तसिः । मगधराजो राजहंसः । मैथिलेन्द्रस्तु प्रहारवर्मा । मालवेन्द्रप्रयत्नेन प्राणितो जीवितः ।स्वविषयमात्मदेशम् । ज्येष्ठस्य भ्रातुः । स्वस्रीयाद्भगिनीपुत्रात् । 'स्वस्रीयो भागिनेयः स्यात्' इत्यमरः । दण्डावयवं सैन्यैकदेशम् । 'दण्डोऽस्त्री शासने राज्ञां हिंसने दमसैन्ययोः' इति भागुरिः । अटवीपथमरण्यमार्गम् । लुब्धका व्याधाः । 'व्याधो मृगवधाजीवो मृगयुर्मृगलुब्धकः' इत्यमरः । तत्सुतेन प्रहारवर्मपुत्रेण । वनचराणां भिल्लानां शरवर्षाद्भयं तेन पलायिता
 
भूषणा ।
 
लवेन मालवदेशराजेन सह । जन्यं युद्धम् । 'युद्धमायोधनं जन्यम्' इत्यमरः । लेशतः किंचित् । कथंचिदिति यावत् । कथंचिदपि ज्ञातुं कठिनमित्यन्वयः । 'आद्यादिभ्य उपसंख्यानम् ' ( वा. ३३३९ ) इति तसिः । दुर्लक्षितां ज्ञातुमशक्याम् । लेशेन चिह्नेनापि लक्षितुमवगन्तुमशक्याम् । प्रयत्नप्राणितः प्रयत्नेन रक्षितः । गृहीत्वा यथायं जीवेत्तथापवादित इति यावत् । स्वस्रीयो भागिनेयः ।
'स्वस्रीयो भागिनेयः स्यात्' इत्यमरः । 'स्वसुश्छः' (४।१।१४३ ) । दण्डावयवं सैन्यैकदेशम् । 'दण्डोऽस्त्री शासने राज्ञां हिंसने दमसैन्ययोः' इति भागुरिः । आदित्सुरादातुमिच्छुः । अभ्यलीयत । तदन्तःप्रविष्ट इति यावत् । लुब्धको व्याधः । 'व्याधो मृगवधाजीवो मृगयुर्मृगलुब्धकः' इत्यमरः । कपिलाशवस्य मृतगोशरी-
 
लघुदीपिका ।
 
प्रयत्नेन रक्षितः । 'स्वस्रीयो भागिनेयः स्यात्' । दण्डावयवं सैन्यैकदेशम् । 'दण्डोऽस्त्री शासने राज्ञां हिंसने दमसैन्ययोः' इति भागुरिः । लुब्धकः । 'व्याधो
मृगवधाजीवो मृगयुर्लुब्धकश्च सः' । इष्वसनं धनुः । वृष्णिपालो गोपालः ।
 
[^१]G. 'दुर्लक्षिताम् .
[^२]G. मैथिलस्तु',