2023-09-05 10:22:47 by Lakshmainarayana achar

This page has been fully proofread twice.

एषोऽस्मि पर्यटन्नेकदा गतो विदेहेषु । मिथिलामप्रविश्यैव
बहिः क्वचिन्मठिकायां विश्रमितुमेत्य कयापि वृद्धतापस्या दत्त-
पाद्यः क्षणमलिन्दभूमाववास्थिषि । तस्यास्तु मदर्शनादेव किम-
प्याबद्धधारमश्रु प्रवर्तत । 'किमेतदम्ब, कथय कारणम् इति
पृष्टा सकरुणमाचष्ट- ' जैवातृक, ननु श्रूयते पतिरस्या मिथिलायाः
प्रहारवर्मा नामासीत् । तस्य खलु मगधराजो राजहंसः परं
मित्रमासीत् । तयोश्च वल्लभे [^१]बलशम्बलयोरिव वसुमतीप्रियंवदे सख्यमप्रतिममधत्ताम् । अथ प्रथमगर्भाभिनन्दितां तां च प्रियसखीं दिदृक्षुः प्रियंवदा वसुमतीं सह भर्त्रा पुष्पपुरमगमत्।
 
पदचन्द्रिका ।
 
इदानीमुपहारवर्मचरितमभिधातुमुपक्रमते - एषोऽस्मीति । पर्यटन्नितस्ततो गच्छन् । एकदैकस्मिन्दिवसे मठिकाल्पमठः । 'मठश्छात्रादिनिलयः' इत्यमरः । दत्तपाद्य: दत्तपादोदकः । 'पाद्यं पादाय वारिणि इत्यमरः । अलिन्दभूमौ । 'प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' इत्यमरः । अवास्थिषि । आबद्धधारमविच्छि-
न्नधारम् । अम्ब मातः । सकरुणं करुणासहितम् । जैवातृक आयुष्मन् । 'जैवातृकः स्यादायुष्मान्' इत्यमरः । तयो राजहंस- प्रहारवर्मणोः । वल्लभे स्त्रियौ । बलश्च शम्बलश्च द्वावप्यसुरौ तयोरिव । एका वसुमती, अपरा प्रियंवदा इत्युभे ।
अप्रतिममसदृशम् । अधत्तां दधतुः । अथेति । तां प्रियसखीं वसुमतीम् । प्रियं-
 
भूषणा ।
 
आलिन्दभूमिर्बहिर्द्वाराग्रवर्तिचतुष्कम् । 'ओटा' इति भाषायां प्रसिद्धम् । 'प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' इत्यमरः । अवास्थिषीति । 'समवप्रवि- '(१।३।२२) इत्यात्मनेपदम् । किमप्यवशं भृशं वा । जैवातृक आयुष्मन् । 'जैवातृकः
स्यादायुष्मान्' इत्यमरः । बलशम्बरयोरिवेति ।तयोरित्यस्योपमानमिदम् । बलः शम्बरश्चेति द्वावप्यसुरौ । पुष्पपुरमेतन्नामकं राजहंसनगरम् । मा-
 
लघुदीपिका ।
 
आलिन्दभूमिः । 'प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' । किमप्यवशं भृशं वा । 'जैवातृकः स्यादायुष्मान्' । बलः शम्बरश्चेति द्वावसुरौ । जन्यं युद्धम् । 'युद्धमायोधनं जन्यम्' । लेशतः किंचित् । 'सर्वविभक्त्यर्थे तसिल्वक्तव्यः' । प्रयत्नप्राणितः
 
[^१]G. 'शम्बर'.