2023-06-26 15:02:51 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
तृतीयोच्छ्वासः ।
 
एषोऽस्मि पर्यटन्नेकदा गतो विदेहेषु । मिथिलामप्रविश्यैव

बहिः क्वचिन्मठिकायां विश्रमितुमेत्य कयापि वृद्धतापस्या दत्त-

पाद्यः क्षणमलिन्द्भूमाववास्थिषि । तस्यास्तु मदर्शनादेव किम-

प्याबद्धधारमश्रु प्रवर्तत । 'किमेतदम्ब, कथय कारणम् इति

पृष्टा सकरुणमाचष्ट- ' जैवातृक, ननु श्रूयते पतिरस्या मिथिलायाः

प्रहारवर्मा नामासीत् । तस्य खलु मगधराजो राजहंसः परं

मित्रमासीत् । तयोश्च वल्लभे बै[^१]बलशम्बलयोरिव वसुमतीप्रियंवदे
सख्यमप्रतिममधत्ताम् । अथ प्रथमगर्भाभिनन्दितां तां च प्रिय-
सखीं दिदृक्षुः प्रियंवदा वसुमतीं सह भर्त्रा पुष्पपुरमगमत्
 
१३८
 
[ तृतीयः
 

 
पदचन्द्रिका ।
 
गच्छन्
 

 
इदानीमुपहारवर्मचरितमभिधातुमुपक्रमते - एषोऽस्मीति । पर्यटन्चिनितस्ततो
गच्छन् । एकदैकस्मिन्दिवसे मठिकाल्पमठः । 'मठश्छात्रादिनिलयः' इत्यमरः ।
दत्तपायोद्य: दत्तपादोदकः । 'पाद्यं पादाय वारिणि इत्यमरः । अलिन्दभूमौ ।
'प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' इत्यमरः । अवास्थिषि । आबद्धधारमविच्छि-

न्
नधारम् । अम्ब मातः । सकरुणं करुणासहितम् । जैवातृक आयुष्मन् । 'जैवा-
तृकः स्यादायुष्मान्' इत्यमरः । तयो राजहंस- प्रहारवर्मणोः । वल्लभे स्त्रियौ । बल
श्च शम्बलश्च द्वावप्यसुरौ तयोरिव । एका वसुमती, अपरा प्रियंवदा इत्युमे ।
भे ।
अप्रतिममसदृशम् । अत्तां दतुः । अथेति । तां प्रियसखीं वसुमतीम् । प्रियं-

 
भूषणा ।
 

 
आलिन्दभूमिर्बहिर्द्वाराप्ग्रवर्तिचतुष्कम् । 'ओटा' इति भाषायां प्रसिद्धम् ।
'प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' इत्यमरः । अवास्थिषीति । 'समवप्रबि- '
(१।३।२२) इत्यात्मनेपदम् । किमप्यवशं भृशं वा । जैवातृक आयुष्मन् । 'जैवातृकः

स्यादायुष्मान्' इत्यमरः । बलशम्बरयोरिवेति । तयोरित्यस्योपमानाम-
नमिदम् । बलः शम्बरश्चेति द्वावग्प्यसुरौ । पुष्पपुरमेतन्नामकं राजहंसनगरम् । मा-

 
लघुदीपिका ।
 

 
आलिन्दभूमिः । 'प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्ठके' । किमप्यवशं भृशं वा ।
'जैवातृकः स्यादायुष्मान्' । बलः शम्बरश्चेति द्वावसुरौ । जन्यं युद्धम् । 'युद्धमायो-
नं जन्यम्' । लेशतः किंचित् । 'सर्वविभक्त्यर्थे तसिल्वक्तव्यः' । प्रयत्नप्राणितः
 
पाठा०-

 
[^
]G. 'शम्बर'.