2023-05-19 12:53:23 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

'विरचितारातिसंतापेन प्रतापेन सतततुलितवियन्मध्यहंसः, राजहंसो
नाम घनदर्पकंदर्पसौन्दर्यसोदर्यहृद्यनवग्रनिवद्यरूपो भूपो बभूव । तस्य
वसुमती नाम सुमती लीलावतीकुलशेखरमणी रमणी बभूव ।
[^१] रोषणेक्षणेन निटिलेक्षणेन भस्मीकृतचेतने मकरकेतने तदा भयेनानवद्या वनितेति मत्वा, [^२] तस्य रोलम्बावली केशजालम्, प्रेमाकरो रजनीकरो विजितारविन्दं वदनम्, जयध्वजायमानो मीनो जायायुतोऽक्षियुगलम्, सकलसैनिकाङ्गवीरो मलयसमीरो निःश्वासः, [^३]पथिकहृद्दलनकरवाल: प्रवालश्चाधरबिम्बम्, जयशङ्खो बन्धुरा लावण्यधरा कंधरा, पूर्णकुम्भौ चक्रवाकानुकारौ पयोधरौ, ज्यायमाने मार्दवासमाने बिसलते च बाहू, ईषत्फुल्ली- लावतंसकल्हारकोरको गङ्गावर्तसनाभिर्नाभिः, दूरीकृतयोगिमनोरथो जैत्ररथोऽतिघनं जघनम्
जयस्तम्भभूते सौन्दर्यभूते विघ्नितयतिजनारम्भे रम्भे चोरुयुगम्
 
विरचितोऽरातिसंतापो येन । रिपुदत्तसंताप इत्यर्थः । 'अभिघातिपरारातिंतिप्रत्यर्थिपरिपन्थिनः' इत्यमरः । वियत आकाशस्य मध्ये हंसः सूर्यः । दर्पोऽवलेपः ।
कंदर्पो मन्मथः । सोदर्यो बन्धुः समानोदर्यः । अत्र तु सोदर्यं सदृशम् । हृद्यं मनोहरम् । निरवद्यं निर्दोषम् । लीलावत्यो योषितस्तासां कुलं तस्य शेखरमणिर्भूषणमवतंसः । रोषणेति । क्रोधताम्रदृशेत्यर्थः । निटिलेक्षणः शिवः । निटिले भालस्थले ईक्षणं नयनं यस्येति विग्रहः । मकरकेतनो मन्मथः । अनवधाद्या निर्दोषा ।
रोलम्बेति । रोलम्बावली भ्रमरपङ्कि: । अर्थात्कामस्य मौर्वीस्थिता । 'इन्दिन्दिरोऽली रोलम्बो द्विरेफः' इति हैमः । प्रेम्ण आकरः खनिः । 'खनिः स्त्रियामाकरः स्यात्' इत्यमरः । विजितारविन्दं विजितं कान्त्या तिरस्कृतमरविन्दं कमलं येन तत् । जयध्वज इवाचरति जयध्वजायते । जयध्वजे तिष्ठति वा । जायायुतः पत्नीसहितः । अक्षियुगलमक्ष्णोर्द्वयम् । अङ्गवीरः प्रधानयोधः । मलयसमीरो
दक्षिणानिलः । पथिंथिकाः प्रोषिताः पान्थाः । 'पान्थः पथिक इत्यपि इत्यमरः । तेषां हृदयस्य यद्दलनं पाटनं तस्मिन्करवालः कृपाणः । 'कौक्षेयको मण्डलाग्रः करवाल: कृपाणवत्" इत्यमरः । प्रवालः किंकिसलयः । बन्धुरोन्नतानता । 'बन्धुरं तून्नतानतम्' इत्यमरः । कंधरा ग्रींरीवा । ज्यायमाने ज्येवाचरन्त्यौं । मार्दवे मृदु-
त्वेऽसमाने । कल्हारं कमलं तस्य कोरकः कुड्मल: । गङ्गेति । आवर्तोऽम्भसां भ्रमः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । तत्सनाभिः सदृशः । दूरीकृतेति । दूरीकृत अपनीता योगिजनानां मनोरथा येनेति । जैत्रो जयनशीलः । जय-
 
[^१]G. 'रोषरूक्षेण निटिलाक्षेण.
[^२]G. 'तस्या".
[^३]G. 'पथिकहृद्दलनः.करवालप्रवाल:.