This page has not been fully proofread.

प्रथमोच्छ्वासः ] पददीपिकाख्यव्याख्यासहितम्
 
201
 
डे
 
मध्याहन
 
SARS BON
 
'विरचितारातिसंतापेन प्रतापेन सतततुलितवियन्मध्यहंसः, राजहंसो
नाम घनदर्पकंदर्पसौन्दर्यसोदर्यहृद्यनवग्ररूपो भूपो बभूव । तस्य
वसुमती नाम सुमती लीलावतीकुलशेखरमणी रमणी बभूव ।
रोषणेक्षणेन निटिलेक्षणेन भस्मीकृतचेतने मकरकेतने तदा भयेनान-
वद्या बनितेति मत्वा, तेस्य रोलम्बावली केशजालम्, प्रेमाकरो
रजनीकरो विजितारविन्दं वदनम्, जयध्वजायमानो मीनो जायायु-
तोऽक्षियुगलम्, सकलसैनिकाङ्गवीरो मलयसमीरो निःश्वासः, पथि-
कहद्दलनकरवाल: प्रवालश्चाधरबिम्बम्, जयशङ्खो बन्धुरा लावण्य-
धरा कंधरा, पूर्णकुम्भौ चक्रवाकानुकारौ पयोधरौ, ज्यायमाने मार्द-
वासमाने बिसलते च बाहू, ईषत्फुल्लीलावतंसारकोरको गङ्गा-
वर्तसनाभिर्नाभिः, दूरीकृतयोगिमनोरथो जैत्ररथोऽतिघन जघनम्
जयस्तम्भभूते सौन्दर्यभूते विनितयतिजनारम्भे रम्भे चोरुयुगम्
 
प्राा सल
 
विरचितोऽरातिसंतापो येन । रिपुदत्तसंताप इत्यर्थः । 'अभिघातिपरारातिंप्रत्य-
र्थिपरिपन्थिनः' इत्यमरः । वियत आकाशस्य मध्ये हंसः सूर्यः । दर्पोऽवलेपः ।
कंदर्पो मन्मथः । सोदय बन्धुः समानोदर्यः । अत्र तु सौंदर्य सदृशम् । हुयं
मनोहरम् । निरवद्यं निर्दोषम् । लीलावत्यो योषितस्तासां कुलं तस्य शेखरमर्गि-
भूषणमवतसः । रोषणेति । क्रौंधताम्रदृशेत्यर्थः । निर्टिलेक्षणः शिवः । निटिले'
भालस्थले ईक्षणं नयनं यस्येति विग्रहः । मकरकेतनो मन्मथः । अनवधा निर्दोषा ।
रोलम्बेति । रोलम्बावली भ्रमरपतिः । अर्थात्कामस्य मौवस्थिता । 'इन्दि-
न्दिरोऽली रोलम्बो द्विरेफः' इति हैमः । प्रेम्ण आकरः खनिः । 'खनिः स्त्रिया-
माकरः स्यात्' इत्यमरः । विजितारविन्दं विजितं कान्त्या तिरस्कृतमरविन्द कमलं
येन तत् । जयध्वज इवाचरति जयध्वजायते । जयध्वजे तिष्ठति वा । जायायुतः
पत्नीसहितः । अक्षियुगलमक्ष्णोर्द्वयम् । अङ्गवीरः प्रधानयोधः । मलयसमीरों
दक्षिणानिलः । पथिंकाः प्रोषिताः पान्थाः । 'पान्थः पथिक इत्यपि इत्यमरः ।
तेषां हृदयस्य यद्दलनं पाटनं तस्मिन्करवालः कृपाणः । 'कौक्षेयको मण्डलाग्रः
करवाल: कृपाणवत्" इत्यमरः । प्रवालः किंसलयः । बन्धुरोन्नतानता । 'बन्धुरं
तूञ्जतानतम्' इत्यमरः । कंधरा ग्रींवा । ज्यायमाने ज्येवाचरन्त्यौं । मार्दवें मृदु-
त्वेऽसमाने । कारं कम तस्य कोरकः कुडयलः । गङ्गेति । आवर्तोऽम्भसां
भ्रमः । 'स्यादावर्तोऽम्भस भ्रमः' इत्यमरः । तत्सनाभिः सदृशः । दूरीकृतेति ।
दूरीकृत अपनीता योगिजनानां मनौरथा येनेति । जैत्रो जयनशीलः । जय-
२ 'तस्या" ३ 'पथिकहरूनः
 
पाठा०-१ 'रोषरूक्षेण निटिलाक्षेण'
कर वालप्रवाल:'.