This page has not been fully proofread.

उच्छ्वास: ] पदचन्द्रिका - भूषणा- लघुदीपिकासहितम् । १३७
साक्षिण्याथर्वणेन विधिनार्यमाणमादित्समानस्यायामिनं बाहुदण्ड-
माकृष्य च्छुरिकयोरसि प्राहार्षम् । स्फुरतश्च कतिपयानन्यानपि
यमविषयमगमयम् । हतविध्वस्तं च तद्गृहमनुविचरन्वेपमानमधु-
रगात्रीं विशाललोचनामभिनिशाम्य तदालिङ्गनसुखमनुबुभूषुस्ता-
मादाय गर्भगृहमविक्षम् । अस्मिन्नेव क्षणे तवास्मि नवाम्बुवाह-
स्तनितगम्भीरेण स्वरेणानुगृहीतः' इति ।
 
श्रुत्वा च स्मित्वा च देवोऽपि राजवाहनः 'कथमसि कार्कश्येन
कर्णीसुतमप्यतिक्रान्तः ' इत्यभिधाय पुनरवेक्ष्योपहारवर्माणम्
'आचक्ष्व, तवेदानीमवसरः' इत्यभाषत । सोऽपि सस्मितं प्रणम्या-
रभताभिधातुम्-
इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽपहारवर्मचरितं
नाम द्वितीय उच्छासः ।
 
पदचन्द्रिका ।
 
सह समम् । अग्नौ साक्षिणि सति । अग्निसाक्षिकमित्यर्थः । आथर्वणेन पुरोधसा ।
'आथर्वणः पुरोधा स्याच्छान्तिपुष्टिकरो द्विजः' इति कामन्दकः । विधिना विध्यु-
कप्रकारेण । अर्प्यमाणं दीयमानम् । आदित्समानस्य ग्रहीतुकामस्य । आयामिनं
दैर्ध्यवन्तम् । प्राहार्ष हतवान् । यमविषयं यमदेशम् । 'विषयो देशे' इति निपातः ।
'नीवृज्जनपदो देशविषयौ तूपवर्तनम्' इत्यमरः । तद्गृहं चण्डवर्मगृहम् । वेपमान-
मधुरगात्रीं कम्पमानसुन्दरशरीराम् । अभिनिशाम्य संमुखं दृष्ट्वा । अनुबुभूषुरनु-
भवितुमिच्छुः । गर्भगृहं वासगृहम् । 'गर्भागारं वासगृहम्' इत्यमरः । अस्मि
निति । क्षणे समये । नवाम्बुवाहो नूतनमेघस्तस्य स्तनितं गर्जितम् । 'स्तनितं
गर्जितं मेघनिर्घोषे रसितादि च' इत्यमरः । कार्कश्येन कर्कशस्य भावस्तेन काठि-
न्येन । कर्णीसुतः स्तेयशास्त्रकर्ता । सोऽप्युपहारवर्मा । अभिधातुं वक्तुम् ॥
इति श्रीदशकुमारटीकायां पदचन्द्रिकाभिधायां
द्वितीय उच्छ्वासः ॥
 
भूषणा ।
 
अनभिसरमसहायीभूतम् । 'अनुप्लवः सहायश्चानुचरोऽभिचरः समाः' इत्यमरः ।
उपावर्तयोपसमीप आवर्तयानय । संभूय संगत्य । आथर्वणः पुरोहितः । 'आथर्वणः
पुरोधा स्याच्छान्तिपुष्टिकरो द्विजः' इति कामन्दके । अर्प्यमाणं दीयमानम् ।
यमविषयं यमदेशम् । 'विषयो 'देशे' इति 'निपातः । अभिनिशाम्य दृष्ट्वा ॥
इति श्रीदशकुमारटीकायां भूषणाभिधायां द्वितीय उच्छ्रासः ॥
लघुदीपिका ।
 
सरं सहायीभूतम् । संभूय संगत्य । आथर्वणः पुरोहितः । 'आथर्वणः पुरोधा
स्याच्छान्तिपुष्टिकरो द्विजः' इति कामन्दके । अर्प्यमाणं दीयमानम् । यम-
विषयं यमदेशम् । 'विषयो देशे' इति निपातः ॥ इति द्वितीय उच्छ्रासः ॥