This page has not been fully proofread.

१३६
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
ग्रामिकं विधिमाचिकीर्षति तावत्स्वयमेव प्राकारं निर्भिद्य प्रत्यास-
नानपि सहायान प्रतीक्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति
संपराये भिन्नैवर्मा सिंहवर्मा बलाद्गृह्यत । अम्बालिकां च
बलवदभिगृह्य चण्डवर्मणा हठात्परिणेतुमात्मभवनमनीयत ।
क्रौतुकं च स किल क्षपावसाने विवाह इत्यबनात् । अहं च धनमि-
त्रगृहे तद्विवाहायैव पिनद्धमङ्गलप्रतिसरस्तमेवमवोचम् – 'सखे,
समापतितमेवाङ्गराजाभिसरं राजमण्डलम् । सुगूढमेव संभूय पौर-
वृद्धैस्तदुपावर्तय । उपावृत्तश्च कृत्तशिरसमेव शत्रुं द्रक्ष्यसि' इति ।
' तथा' इति तेनाभ्युपगते गतायुषोऽमुष्य भवनमुत्सवाकुलमुपसमा-
धीयमानपरिणयोपकरणमितस्ततः प्रवेशनिर्गमप्रवृत्तलोकसंबाधमल-
क्ष्यशस्त्रिकः सह प्रविश्य मङ्गलपाठकैरम्बालिकापाणिपल्लवमझौ
 
पदचन्द्रिका ।
 

 
अमर्षणः सकोपः । अङ्गराजः सिंहवर्मा । प्राकारमावरणभित्तिम् । निर्भिद्य मेद-
यित्वा । प्रत्यासन्नान् समीपवर्तिनः । अभ्यधिकबलेन बहुतरबलेन । विद्विषा चण्ड-
वर्मणा । संपराये सङ्ग्रामे । भिन्नवर्मा भिन्नतनुत्रः । 'तनुत्रं वर्म दंशनम्' इत्यमरः ।
सिंहवर्मागृह्यत गृहीतः । अम्बालिकां सिंहवर्मदुहितरम् । कौतुकं मङ्गलसूत्रम् ।
स किल चण्डवर्मा । अबध्नात् । बबन्धेत्यर्थः । अहमपहारवर्मा । तद्विवाहायाम्बा-
लिकाविवाहाय। पिनद्धमङ्गलप्रतिसरी बद्धमङ्गलहस्तसूत्रः । 'हस्तसूत्रं प्रतिसरः'
इति वैजयन्ती । तं धनमित्रम् । सखे मित्र । समापतितं समागतम् । अङ्गराजा-
भिसरमङ्गराजसहायीभूतम् । सुगूढं सुगुप्तम् । तद्राजमण्डलमुपावर्तय । उपावृत्तश्च
पुनरागतः सन् । शत्रुं चण्डवर्माणम् । तेन धनमित्रेण । तथेत्यभ्युपगतेऽङ्गीकृते ।
गतायुषोऽल्पायुषः । अमुष्य चण्डवर्मणः । उपसमाधीयमान परिणयोपकरणं
संपाद्यमानविवाहोपयुक्तवस्तुजातम् । इतस्ततः सर्वतः । प्रवेशनिर्गमा गतागतानि
तत्र प्रवृत्त उपक्रान्तो यो लोकस्तेन संबाधं संकटम् । 'संकटं ना तु संबाध:
इत्यमरः । अलक्ष्यादृश्या शस्त्रिका च्छुरिका यस्येति स तथा । मङ्गलपाठकैर्ब्राह्मणैः
भूषणा ।
 
निर्भिद्य निर्गम्याप्रतीक्ष्यमाण इत्यन्वयः । पारग्रामिकम् । 'ग्रामात्पर्यनुपूर्वांत्' (४॥३॥
६१) इति ठञ्, 'अव्ययीभावात्' (४।३।५९) इत्येव । सालः प्राकारः । 'प्राकारो वरणः
सालः' इत्यमरः । प्रतिसरो हस्तसूत्रम् । 'हस्तसूत्रं प्रतिसरः' । समापतितं समागतम् ।
लघुदीपिका ।
 
'प्राकारो वरणः सालः' । 'हस्वसूत्रं प्रतिसरः' । समापतितं समागतम् । अभि-
पाठा० - १ 'सालम्', २ 'भिन्नमर्मा'. ३ 'अम्बालिका'. ४ 'कृतकृत्य-
कृत्तशिरसमेव'.