2023-06-24 15:27:47 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
न्मत्तं मुक्तवती । कस्तमिदानीं बध्नाति' इति निन्दिता कदर्थिता
रुदत्येव मामन्वधावत् । गत्वा च रागमञ्जरीगृहं चिरविरहखेदवि-
[^१]ह्वलामिमां बहुविधं समाश्वास्य तं निशाशेषमनयम् । प्रत्यूषे पुनरुदारकेण च समगच्छे ।
अथ भगवन्तं मरीचिं वेशकृच्छ्रादुत्थाय पुनः[^२]प्रतितप्ततपःप्रभा-
वप्रत्यापन्नदिव्यचक्षुषमुपसंगम्य तेनास्म्येवंभूतत्वदर्शनमवगमितः ।
सिंहघोषश्च कान्तकापचारं निर्भिद्य तत्पदे प्रसन्नेन राज्ञा प्रतिष्ठा-
पितः । तेनैव चारकसुरङ्गापथेन कन्यापुरप्रवेशं भूयोऽपि मे सम-
पादयत् । समगंसि चाहं शृगालिकामुखविसृतवार्तानुरक्तया राज-
दुहित्रा । तेष्वेव दिवसेषु चण्डवर्मा सिंहवर्मावधूतदुहितृप्रार्थनः
कुपितोऽभियुज्य पुरमवारुणत् । अमर्षणश्चाङ्गराजो यावदरिः [^३]पार-
पदचन्द्रिका ।
असौ शृगालिका । कदर्थिता निन्दिता । 'निन्दिता क्लेशने चैव वर्णने च कदर्थने' इति सज्जनः । गत्वा चेति । चिरं बहुकालं यो विरहखेदो वियोगदुःखं तेन विह्वलाम् । बहुविधं बहुप्रकारम् । निशाशेषं रात्रिशेषम् । प्रत्यूषे प्रातःकाले ।
'प्रत्यूषोऽहर्मुखम्' इत्यमरः । उदारकेण मित्रेण ॥
अथेति । वेशकृच्छ्राद्वेश्याकष्टात् प्रतितप्तं यत्तपस्तस्य प्रभावात्सामर्थ्यात्प्रत्यापन्नं प्राप्तं दिव्यं चक्षुर्येनेति तथा तम् । उपसंगम्य मिलित्वा । तेन मरीचिना । एवंभूतममुना प्रकारेण ।
त्वद्दर्शनम् । तच्छब्देन राजवाहनस्योपस्थितिः । अवगमितो
बोधितः । सिंहघोषः कारागृहमित्रम् । कान्तकापचारं कारापत्यपकारम् । निर्भिद्य प्रकटीकृत्य । तत्पदे कान्तकस्थाने । तेनैव मत्कृतमार्गेण । समगंसि मिलित इत्यर्थः ।
शृगालिकामुखविसृतवार्तया शृगालिकावदननिर्गतगोष्ठ्या । अनुरक्तयासक्तया । तेष्वेवेति । चण्डवर्मा राजवाहनबन्धनकर्ता । सिंहवर्मणाङ्गदेशस्थचम्पानगरराज्ञा । अभियुज्याभिभूय । 'अभियोगस्त्वभिभवः' इति । अवारुणत् । रुरोधेत्यर्थः
भूषणा ।
हङ्गारातिरित्यपि' इति वैजयन्ती । शान्तं पापमित्यनाकाङ्क्षे । कदर्थिता निन्दिता । 'निन्दितः क्लेशने चैव वर्णने न कदर्थिते' इत्यजयः । विक्लवो विह्वलः । 'विक्लवो विह्वलः स्यात्' इत्यमरः । उपसंगम्येत्यस्यावगमित इत्यवगमेऽन्वयः । अतः समानकर्तृकत्वम् । अभियुज्य । 'अभियोगस्त्वभिभवः' । अवारुणद्रुद्धवान् । प्राकारं
लघुदीपिका ।
'निन्दिता क्लेशने चैव वर्णने च कदर्थिता' इति सज्जनः । 'विक्लवो विह्वलः स्यात्तु' । अभियुज्य । 'अभियोगस्त्वभिभवः' । अवारुणद्रु- द्धवान् । सालः प्राकारः ।
[^१]G. 'विक्लवाम्'.
[^२]G. 'प्रतिपन्न'.
[^३]G. 'पारिग्रामिकं '