2023-06-24 15:09:10 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

प्रणाममभ्येत्य 'भद्रमुखाः, ममैष पुत्रो वायुग्रस्तश्चिरं चिकित्सितः ।
पूर्वेद्यु: प्रसन्नकल्पः प्रकृतिस्थ एव जातः । जातास्थया मया
बन्धनान्निष्क्रमय्य स्नापितोऽनुलेपितञ्श्च परिधाप्य [^१]निष्प्रवाणियुगलमभ्यवहार्य परमान्नमौशीरेऽद्य कामचारः कृतोऽभूत् । अथ निशीथे भूय एव वायुनिघ्नः 'निहत्य कान्तकं नृपतिदुहित्रा रमेयम्' इति रंहसा परेण राजपथमभ्यपतत् । निरूप्य चाहं पुत्रमेवंगतमस्यां वेलायामनुधावामि । तत्प्रसीदत । बद्धै्वनं मह्यमर्पयत' इति यावदसौ क्रन्दति तावदहं 'स्थविरे, केन देवो मातरिश्वा बद्धपूर्व: ? किमेते काका: शौङ्गेयस्य मे
निग्रहीतार: ? शान्तं पापम्' इत्यभ्यधावम् । असावप्यमीभिः 'त्वमेवोन्मत्ता यानुन्मत्त इत्यु-
 
पदचन्द्रिका ।
 
भिप्रायो मदाशयः । अभ्येत्य संमुखमेत्य । वायुग्रस्तो वातुलः । प्रकृतिस्थः स्वभावस्थः । जातास्थया जातादरया । निष्प्रवाणियुगलमनाहतवस्त्रयुगलम् । 'अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे' इत्यमरः । अभ्यवहार्य भोजयित्वा ।
परमान्नं पायसम् । एवमेवामरः । औशीरे शयनासने । 'औशीरं शयनासनम्' इति हलायुधः । कामचारः स्वेच्छाचारित्वम् । अथेति । निशीथेऽर्धरात्रे । 'अर्धरात्रनिशीथौ द्वौ ' इत्यमरः । वायुनिघ्नो वातायत्तः । 'अधीनो निम्घ्न आयत्तः' इत्यमरः । रमेयं क्रीडां करोमीति । रंहसा वेगेन । बद्ध्वा बन्धनं कृत्वा । मातरिश्वा वायुः । 'मातरिश्वा सदागतिः' इत्यमरः । बद्धपूर्वः पूर्वं बद्ध इति
तथा । शौङ्गेयस्य । 'तिलच्छदस्तु शौङ्गेयो विहंगारातिरित्यपि इति वैजयन्ती । 'ससाणा' इति प्रसिद्धः । तद्बन्धने काकानामसामर्थ्यमिति भावः । असाविति ।
 
भूषणा ।
 
तन्त्रकं च नवाम्बरे इत्यमरः । परमान्नं पायसम् । 'परमान्नं तु पायसम्' इत्यमरः । औशीरं शयनासनम् । एवमेवामरः । कामचारो यथेष्टसंचारः । निघ्नः अधीनः । 'अधीनो निघ्न आयत्तः' इत्यमरः । निहत्येत्यादि । सत्यभाषणेन न मे पापम् । अनयैवास्य बन्धुना या(वा)स्मान्क्षोभयितुमुच्यत इत्यहमपि वायुनिघ्नैवैतन्मते भविष्यामीति मां नैव घ्नीयुरिति भावः । 'तिलच्छदस्तु शौङ्गेयो वि-
 
लघुदीपिका ।
 
नवाम्बरे' । 'औशीरं शयनासनम्' । कामचारो दूतचारः । निघ्नः परवशः शौङ्गेयः । 'तिलच्छदस्तु शौङ्गेयो विहंगारातिरित्यपि ' इति वैजयन्ती । कदर्थिता
 
[^१]G. 'अनाहतयुगलम्'.