2023-06-24 15:05:52 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१३४
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
प्रणाममभ्येत्य 'भद्रमुखाः, ममैष पुत्रो वायुप्ग्रस्तश्चिरं चिकित्सितः ।

पूर्वेयुःद्यु: प्रसन्नकल्पः प्रकृतिस्थ एव जातः । जातास्थया मया

बन्धनान्निष्क्रमय्य स्नापितोऽनुलेपितञ्च परिधाप्य [^१]निष्प्रवाणियुगल-
मभ्यवहार्य परमान्नमौशीरेऽद्य कामचारः कृतोऽभूत् । अथ
निशीथे भूय एव वायुनिघ्नः 'निहत्य कान्तकं नृपतिदुहित्रा रमेयम्'
इति रंहसा परेण राजपथमभ्यपतत् । निरूप्य चाहं पुत्रमेवंगत-
मस्यां वेलायामनुधावामि । तत्प्रसीदत । बद्धैधै्वनं मह्यमर्पयत
' इति यावदसौ क्रन्दति तावदहं 'स्थविरे, केन देवो मातरिश्वा
बद्धपूर्व: ? किमेते काका: शौङ्गेयस्य मे
निग्रहीतार: ? शान्तं पापम्'
इत्यभ्यधावम् । असावप्यमीभिः 'त्वमेवोन्मत्ता यानुन्मत्त इत्यु-

 
पदचन्द्रिका ।
 

 
भिप्रायो मदाशयः । अभ्येत्य संमुखमेत्य । वायुयस्तो वातुलः । प्रकृतिस्थः
स्वभावस्थः । जातास्थया जातादरया । निष्प्रवाणियुगलमनाहतवस्त्रयुगलम् ।
'अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे' इत्यमरः । अभ्यवहार्य भोजयित्वा ।

परमान्नं पायसम् । एवमेवामरः । औशीरे शयनासने । 'औशीरं शयनासनम्'
इति हलायुधः । कामचारः खेस्वेच्छाचारित्वम् । अथेति । निशीथेऽर्धरात्रे ।
'अर्धरात्रनिशीथौ द्वौ ' इत्यमरः । वायुनिघ्नो वातायत्तः । 'अधीनो निम्न आयत्तः'
इत्यमरः । रमेयं क्रीडां करोमीति । रंहसा वेगेन । बड्डाद्ध्वा बन्धनं कृत्वा ।
मातरिश्वा वायुः । 'मातरिश्वा सदागतिः' इत्यमरः । बद्धपूर्वः पूर्वं बद्ध इति

तथा । शौज्ञेङ्गेयस्य । 'तिलच्छदस्तु शौजेङ्गेयो विहंगारातिरित्यपि इति वैजयन्ती ।
'ससाणा' इति प्रसिद्धः । तद्न्धने काकानामसामर्थ्यमिति भावः । असाविति ।
 

 
भूषणा ।
 

 
तन्त्रकं च नवाम्बरे इत्यमरः । परमान्नं पायसम् । 'परमान्नं तु पायसम्' इत्य-
मरः । औशीरं शयनासनम् । एवमेवामरः । कामचारो यथेष्टसंचारः । निघ्नः
अधीनः । 'अधीनो निम्घ्न आयत्तः' इत्यमरः । निहत्येत्यादि । सत्यभाषणेन न
मे पापम् । अनयैवास्य बन्धुना या ( वा वा)स्मान्क्षोभयितुमुच्यत इत्यहमपि वायुनिघ्नै-
वैतन्मते भविष्यामीति मां नैव घ्नीयुरिति भावः । 'तिलच्छदस्तु शौङ्गेयो वि-

 
लघुदीपिका ।
 

 
नवाम्बरे' । 'औशीरं शयनासनम्' । कामचारो दूतचारः । निघ्नः परवशः
शौजेङ्गेयः । 'तिलच्छदस्तु शौङ्गेयो विहंगारातिरित्यपि ' इति वैजयन्ती । कदर्थिता
 
पाठा० -

 
[^
]G. 'अनाहतयुगलम्'.