This page has not been fully proofread.

१३४
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
प्रणाममभ्येत्य 'भद्रमुखाः, ममैष पुत्रो वायुप्रस्तश्चिरं चिकित्सितः ।
पूर्वेयुः प्रसन्नकल्पः प्रकृतिस्थ एव जातः । जातास्थया मया
बन्धनान्निष्क्रमय्य स्नापितोऽनुलेपितञ्च परिधाप्य निष्प्रवाणियुगल-
मभ्यवहार्य परमान्नमौशीरेऽद्य कामचारः कृतोऽभूत् । अथ
निशीथे भूय एव वायुनिघ्नः 'निहत्य कान्तकं नृपतिदुहित्रा रमेयम्'
इति रंहसा परेण राजपथमभ्यपतत् । निरूप्य चाहं पुत्रमेवंगत-
मस्यां वेलायामनुधावामि । तत्प्रसीदत । बद्धैनं मह्यमर्पयत
इति यावदसौ क्रन्दति तावदहं 'स्थविरे, केन देवो मातरिश्वा
बद्धपूर्व: ? किमेते काका: शौङ्गेयस्य मे निग्रहीतार: ? शान्तं पापम्'
इत्यभ्यधावम् । असावप्यमीभिः 'त्वमेवोन्मत्ता यानुन्मत्त इत्यु-
पदचन्द्रिका ।
 
भिप्रायो मदाशयः । अभ्येत्य संमुखमेत्य । वायुयस्तो वातुलः । प्रकृतिस्थः
स्वभावस्थः । जातास्थया जातादरया । निष्प्रवाणियुगलमनाहतवस्त्रयुगलम् ।
'अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे' इत्यमरः । अभ्यवहार्य भोजयित्वा ।
परमान्नं पायसम् । एवमेवामरः । औशीरे शयनासने । 'औशीरं शयनासनम्'
इति हलायुधः । कामचारः खेच्छाचारित्वम् । अथेति । निशीथेऽर्धरात्रे ।
'अर्धरात्रनिशीथौ द्वौ ' इत्यमरः । वायुनिघ्नो वातायत्तः । 'अधीनो निम्न आयत्तः'
इत्यमरः । रमेयं क्रीडां करोमीति । रंहसा वेगेन । बड्डा बन्धनं कृत्वा ।
मातरिश्वा वायुः । 'मातरिश्वा सदागतिः' इत्यमरः । बद्धपूर्वः पूर्व बद्ध इति
तथा । शौज्ञेयस्य । 'तिलच्छदस्तु शौजेयो विहंगारातिरित्यपि इति वैजयन्ती ।
'ससाणा' इति प्रसिद्धः । तद्वन्धने काकानामसामर्थ्यमिति भावः । असाविति ।
 
भूषणा ।
 
तन्त्रकं च नवाम्बरे इत्यमरः । परमानं पायसम् । 'परमान्नं तु पायसम्' इत्य-
मरः । औशीरं शयनासनम् । एवमेवामरः । कामचारो यथेष्टसंचारः । निघ्नः
अधीनः । 'अधीनो निम्न आयत्तः' इत्यमरः । निहत्येत्यादि । सत्यभाषणेन न
मे पापम् । अनयैवास्य बन्धुना या ( वा स्मान्क्षोभयितुमुच्यत इत्यहमपि वायुनिघ्नै-
वैतन्मते भविष्यामीति मां नैव नीयुरिति भावः । 'तिलच्छदस्तु शौङ्गेयो वि-
लघुदीपिका ।
 
नवाम्बरे' । 'औशीरं शयनासनम्' । कामचारो दूतचारः । निघ्नः परवशः
शौजेयः । 'तिलच्छदस्तु शौयो विहंगारातिरित्यपि ' इति वैजयन्ती । कदर्थिता
 
पाठा० - १ 'अनाहतयुगलम्'.