This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १३३
 
अङ्गुलीयकविनिमयं च
 
कथंकथमपि निरगाम् ।
सुरङ्गया च प्रत्येत्य बन्धागारं तत्र बद्धस्य नागरिकवंरस्य सिंह-
घोषनाम्नस्तेष्वेव दिनेषु मित्रत्वेनोपचरितस्य ' एवं मया हतस्तपस्वी
कान्तकः, तत्त्वया प्रतिभिद्य रहस्यं लब्धव्यो मोक्षः' इत्युपदिश्य सह
शृगालिकया निरामिषम् । नृपतिपथे च समागत्य रक्षिकपुरुष-
रगृह्ये । अचिन्तयं च – 'अलमस्मि जवेनापसर्तुमनामृष्ट एवैभिः ।
एषा पुनर्वराकी गृह्येत । तदिदमत्र प्राप्तरूपम्' इति तानेव चप-
लमभिपत्य स्वपृष्ठसमर्पितकूर्परः पराङ्मुखः स्थित्वा 'यद्यहमस्मि
तस्करः, भद्राः, बध्नीत माम् । युष्माकमयमधिकारः, न पुनरस्या
वर्षीयस्याः' इत्यवादिषम् । सा तु तावतैवोन्नीतमदभिप्राया तान्स-
च कृत्वा
 
पदचन्द्रिका ।
 
सेन ताम्बूलवीटिकारसेन । सुधाभित्तौ चूर्णकुड्ये । चक्रवाकमिथुनं निरष्टीवम-
म्बूकृतवान् । विनिमयो व्यत्ययः । बन्धनागारं प्रत्येय आगत्य । नागरिकत्र-
रस्य नागरिक श्रेष्ठस्य । उपचरितस्य सेवितस्य । तपस्वी शोच्यः । लब्धव्यः
प्राप्तव्यः । मोक्षो मोचनम् । समागत्यागत्य । अचिन्तयं च चिन्तितवानस्मि ।
अपसर्तु पलाय्य गन्तुम् । अलं समर्थः । एभी रक्षकैः । अनामृष्टोऽस्पृष्टः ।
एषा वराकी दीना शृगालिका । गृह्येत धृता भविष्यति । तदिदमत्र प्राप्तरूपं
तस्मादिदं वक्ष्यमाणं प्रशस्तं कर्तव्यम् । तानेव । रक्षकान्प्रतीत्यर्थः । चपलं
शीघ्रम् । 'सत्वरं चपलं तूर्णम्' इत्यमरः । स्वपृष्ठे समर्पितौ निहितो कूर्परौ येनेति
सः । युष्माकं भवताम् । अयमधिकारस्तस्करबन्धनरूपः । वर्षीयस्या वृद्धायाः ।
सात्विति । सा शृगालिका । तावतैव तावन्मात्रेणैव । उन्नीतस्तर्कितः मद-
भूषणा ।
 
लमलक्तं पाटलं यस्मात् । अत्यन्तरक्तमित्यर्थः । 'श्वेतरक्तस्तु पाटलः' इत्यमरः ।
सुधाभित्तौ सुधासंस्कृतभित्तौ । 'सुधा लेपोऽमृतं सुही' इत्यमरः । व्यतिकरो
विनिमयः । तपस्वी शोच्यः । प्रतिभिद्य प्रकाश्य । समापत्य संगम्य । अना-
मृष्टोऽस्पृष्टः । कूर्परः कफोणिः । 'स्यात्कफोणिस्तु कूर्परः' इत्यमरः । वर्षीयस्या
वृद्धायाः । उन्नीतमुन्नमितम् । अनाहतं नवीनवस्त्रम् । 'अनाहतं निष्प्रवाणि
लघुदीपिका ।
 
करो विनिमयः । 'सुरङ्गा तु स्थलान्तरम्' । तपस्वी शोच्यः । प्रतिभिद्य
प्रकाश्य । अनामृष्टोऽस्पृष्टः । उन्नीतमुन्नमितम् । 'अनाहतं निष्प्रवाणि तन्त्रकं च
 
पाठा० - १ 'व्यतिकरम्'. २. 'समापत्य'.
 
१२ द० कु०