2023-06-23 15:59:18 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१३२
 
दशकुमारचरितम् ।
 
[द्वितीयः
 
तदियमत्र प्रतिपत्तिः' इति नागदन्तलग्न[^१]निर्यासकल्कवर्णितं फल-
कमादाय मणि[^२]समुद्गकाद्वर्णवर्तिकामुद्धृत्य तां तथाशयानां तस्याञ्श्
मामाबद्धाञ्जलिं चरणलग्नमालिखमार्यां चैताम्-

'त्वामयमाबद्धाञ्जलि हासजनस्तमिममर्थमर्थयते ।

स्वपिहि मया सह [^३]सुरतव्यतिकरखिन्नैव मा मैवम् ॥'

[^४]
हेमकरण्डकाच्च वासताम्बूलवीटिकां कर्पूरस्फुटिकां पारिजातकं चोप-
युज्यालक्तकपाटलेन तद्रसेन सुधाभित्तौ चक्रवाकमिथुनं निरष्ठीवम् ।
 

 
पदचन्द्रिका ।
 

 
यमहन:' ( १।३।१२८ ) इत्यात्मनेपदम् । तदियमत्र प्रतिपत्तिः । इदमत्र कर्तव्य-
मित्यर्थः । नागदन्तोऽवलम्बनकाष्ठम् 'खुंटी' इति भाषायां प्रसिद्धम् । 'नागदन्तो
द्विपरदे गृहान्निर्गतदारुणि' इति विश्वः । तत्र लग्नं संस्थापितम् । निर्यासकल्केन

चिक्कणद्रव्यक्कावाथेन वर्णितम् । वर्णो रक्तादिः स संजातो यस्मिन्निति तम् । फलकं
काष्ठपट्टिकाम् । हिङ्गुलरक्तपट्टिकमिति यावत् । मणिसमुद्कात् रत्नसंपुटकात् ।

'समुद्रक गक: संपुटकः' इत्यमरः । वर्तिकां तूलिकाम् । 'तूलिका वर्णवर्तिका' इति
बै
वैजयन्ती । तथाशयनां पूर्वोक्तप्रकारेण निद्रां कुर्वाणाम् । चरणलग्नं पादलग्नम् ।
अलिखमार्यां च । आर्यालक्षणं मात्रावृत्तरत्नाकरोक्तम् – 'लक्ष्मैतत्सप्तगणा
गोपेता भवति नेह विषमे जः' इति । त्वामयमिति । अयं दासजनो मद्रूपः
सेवकजनः । आबद्धाजलि कृताञ्जलीति क्रियाविशेषणम् । लात्वामिममर्थम् । अर्थयते
प्रार्थयते । द्विकर्मकोऽयम् । सुरतस्य व्यतिकरः संसर्गस्तेन खिन्नेव मया सह
स्वपिहि निद्रां कुरु । एवं सुरतखेदं विना । मामेति । 'अमानोनाः प्रतिषेधे
' इति वचनात् । आदरे वीप्सा । हेमकरण्डकात्सुवर्णपेटकात् । वासताम्बूलवीटिकां

सुवासितनागवल्लीपत्रवीटिकाम् । कर्पूरस्फुटिकां कर्पूरखण्डम् । पारिजातकं
सुगन्धखदिरसारम् । उपयुज्य भुक्त्वा अलक्तकपाटलेन यावकरक्तेन । तद्र-

 
भूषणा ।
 
*

 
डोङो यमहनः' (१।३।१२८) इत्यात्मनेपदम् । 'हन्तेर्हिंसायां वा झी
घ्नी
भावो वाच्यः'
( वा. ४६२१ ) इति घ्नीभावः । नागदन्ता दन्तकाः । 'नागदन्तास्तु दन्तकाः' इति
हैमः । चूलिका वर्णपट्टिका । वर्तिका लेखनसाधनम् । करण्डः पेटकः । वासताम्बूलवी
टिकाम् । 'नागवल्लीपलाशानां तैलाक्तानां रसालतः । वेष्टनं वीटिका प्रोक्ता चन्द्र-
मन्दारवर्णयुक्' इति वात्स्यायनः । कर्पूरस्फुटिकां कर्पूरकर्णिकाम् । अलक्तकपाट-

 
लघुदीपिका ।
 

 
इत्यात्मनेपदम् । 'नागदन्तो विलम्बनम्' इति वैजयन्ती । 'तूलिका वर्णपट्टिका' ।
करण्डः पेटकः । पेटका वासताम्बूलवीटिका । 'नागवल्लीपलाशानां तैलात्कानां
रसालतः । वेष्टनं वीटिका प्रोक्ता चन्द्रमन्दारवर्णयुक् ॥" इति वात्स्यायनः । व्यति-
पाठा०-

 
[^
]G. 'निर्यासवालुका कल्कवर्णितफलकं'.
[^
]G. चूलिकार्तिकाम्"
 

[^३]G.
'मदन',
[^
]G. 'करण्डात्',