2023-06-23 15:33:34 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

आननेन्दुसंमुखालकलतं च विश्रब्धप्रसुप्तामतिधवलोत्तरच्छद[^१]निम-
ग्नप्रायैकपार्श्वतया चिरविलसनखेदनिश्चलां शरदम्भोधरोत्सङ्गशायिनीमिव सौदामिनीं राजकन्यामपश्यम् । दृष्ट्वैव स्फुरदनङ्गरागश्चकितश्चोरयितव्यनिःस्पृहस्तयैव तावच्चौर्यमाणहृदयः किंकर्तव्यतामूढः क्षणमतिष्ठम् । अतर्कयं च – 'न चेदिमां वामलोचनामाप्नुयां न मृष्यति मां जीवितुं वसन्तबन्धुः । असंकेतितपरामृष्टा [^२]चेयमतिबाला व्यक्तमार्तस्वरेण निहन्यान्मे मनोरथम् । ततोऽहमेवा[^३]घ्नीये ।
 
पदचन्द्रिका ।
 
जायमानम् । श्रमजलं धर्मस्तस्य पुलका बिन्दवः । 'पुलको बिन्दुरोमाञ्चयोरपि' इति वैजयन्ती । अलकलता केशवल्लिः । इत्येतानि क्रियाविशेषणानि । विश्रब्धप्रसुप्तां विश्वासकृतनिद्राम् । अतिधवलोऽतिश्वेतो य उत्तरच्छद आस्तरणपटः ।
निमग्नप्रायः । निमग्न इवेत्यर्थः । 'मन्ये शङ्के ध्रुवं प्राय इति नानार्थवाचकाः' इत्यभिधानात् । विलसनं स्फुरणम् । शरदम्भोधरः शरन्मेघः । उत्सङ्गो मध्यम् । 'मध्योन्नतिः समुत्सङ्ग.' इति वैजयन्ती । सौदामिनी विद्युत् । 'तडित्सौदामिनी विद्युत्' इत्यमरः । दृष्टै- वेति । स्फुरद्विगुणीभूतोऽनङ्गरागो यस्येति । किंकर्तव्यतामूढोऽग्रे किं कर्तव्यमिति ज्ञानरहितः । अतर्कयमिति । मृष्यति सहते ।
'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । वसन्तबन्धुर्मदनः । असंकेतितपरामृष्टाकृतसंकेता सती परामृष्टा स्पृष्टा । आर्तस्वरेण पीडितस्वरेण । निहन्यात् । दूरीकरिष्यतीत्यर्थः । आघ्नीये हतो भविष्यामि । लिङ्युत्तमपुरुषैकवचनम् । 'आङो
 
भूषणा ।
 
पत्रक्रिया पत्रजातिः । विस्रब्धं विश्वस्तम् । 'समौ विश्रम्भविश्वासौ' इत्यमरः । विलसनं स्फुरणम् । उत्सङ्गो मध्यः । 'मध्योर्ध्वदेशावुत्सङ्गौ' इति वैजयन्ती । मृष्यति सहते ।
'वर्तमानसामीप्ये वर्तमानवद्वा ( ३।३।१३१ ) इति लट् । वसन्तबन्धुः कामः । असंकेतितपरामृष्टा सूचितैरस्पृष्टा । अतिवेलं गाढम् । 'अतिबाला' इति पाठेऽतिपदमधिकं तस्यां रसानुत्पत्तेः । आनीये । लिङ्युत्तमपुरुषैकवचनम् ।
 
लघुदीपिका ।
 
माञ्चयोरपि' । विस्रब्धं विश्वस्तम् । निर्भयमित्यर्थः । विलसनं स्फुरणम् । उत्सङ्गो मध्यः । 'मध्योन्नतौ समुत्सङ्गौ' इति वैजयन्ती । मृष्यति सहते । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । असंकेतितपरामृष्टाकृतसंकेतैव स्पृष्टा । 'संपर्कक्रिया तु संकेतः
इत्यजयः । आघ्नीये । लिङ्युत्तमपुरुषैकवचनम् । 'आङो यमहन: ' (१। ३।१२ )
 
[^१]G. 'निमग्नां'.
[^२]G. 'अतिवेलम्'.
[^३]G. 'आाघ्नीय'.