2023-06-23 15:29:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १३१
 
आननेन्दुसंमुखालकलतं च विश्रब्धप्रसुप्तामतिधवलोत्तरच्छदनिमंत्र-

ग्न
प्रायैकपार्श्वतया चिरविलस नखेदनिश्चलां शरदम्भोधरोत्सङ्गशायिनी-
मित्र सौदामिनीं राजकन्यामपश्यम् । दृष्ट्वैव स्फुरदनङ्गरागश्चकित-
श्चोरयितव्यनिःस्पृहस्तयैव तावच्चौर्यमाणहृदयः किंकर्तव्यतामूढः
क्षणमतिष्ठम् । अतर्कयं च – 'न चेदिमां वामलोचनामाप्नुयां न
मृष्यति मां जीवितुं वसन्तबन्धुः । असंकेतितपरामृष्टा [^२]चेर्यमति-
यमतिबाला व्यक्तमार्तस्वरेण निहन्यान्मे मनोरथम् । ततोऽहमेवान्[^३]घ्नीये ।
 

 
S
 

 
पदचन्द्रिका ।
 
1
 

 
जायमानम् । श्रमजलं धर्मस्तस्य पुलका बिन्दवः । 'पुलको बिन्दुरोमाञ्चयोरपि'
इति वैजयन्ती । अलकलता केशवल्लिः । इत्येतानि क्रियाविशेषणानि । विश्रब्ध-
प्रसुप्तां विश्वासकृतनिद्राम् । अतिधवलोऽतिश्वेतो य उत्तरच्छद आस्तरणपटः ।

निमग्नप्रायः । निमग्न इवेत्यर्थः । 'मन्ये शङ्के ध्रुवं प्राय इति नानार्थवाचकाः' इय-
त्यभिधानात् । विलसनं स्फुरणम् । शरदम्भोधरः शरन्मेघः । उत्सङ्गो मध्यम् ।
'मध्योन्नतिः समुत्सङ्ग.' इति वैजयन्ती । सौदामिनी विद्युत् । 'तडित्सौदामिनी
विद्युत्' इत्यमरः । दृष्ठैटै- वेति । स्फुरद्विगुणीभूतोऽनङ्गरागो यस्येति । किंकर्तव्य-
तामूढोऽग्रे किं कर्तव्यमिति ज्ञानरहितः । अतर्कयमिति । मृष्यति सहते ।

'वर्तमानसामीप्ये वर्तमानवद्वा' इति लट् । वसन्तबन्धुर्मदनः । असंकेतितपराभृमृष्टा-
कृतसंकेता सती पराभृमृष्टा स्पृष्टा । आर्तस्वरेण पीडितस्वरेण । निहन्यात् । दूरी-
करिष्यतीत्यर्थः । आघ्नीये हतो भविष्यामि । लिङ्युत्तमपुरुषैकवचनम् । 'आङो
 

 
भूषणा ।
 

 
पत्रक्रिया पत्रजातिः । विस्रब्धं विश्वस्तम् । 'समौ विश्रम्भविश्वासौ' इत्यमरः । विलसनं
स्फुरणम् । उत्सङ्गो मध्यः । 'मध्योर्ध्वदेशावुत्सङ्गौ' इति वैजयन्ती । मृष्यति सहते ।

'वर्तमानसामीप्ये वर्तमानवद्वा ( ३।३।१३१ ) इति लट् । वसन्तबन्धुः कामः ।
असंकेतितपरामृष्टा सूचितैरस्पृष्टा । अतिवेलं गाढम् । 'अतिबाला' इति पाठे-
ऽतिपदमधिकं तस्यां रसानुत्पत्तेः । आनीये । लिङ्युत्तमपुरुषैकवचनम् ।
 

 
लघुदीपिका ।
 

 

 
माञ्चयोरपि' । विस्रब्धं विश्वस्तम् । निर्भयमित्यर्थः । विलसनं स्फुरणम् । उत्सङ्गो
मध्यः । 'मध्योन्नतौ समुत्सङ्गौ' इति वैजयन्ती । मृष्यति सहते । 'वर्तमानसामीप्ये
वर्तमानवद्वा' इति लट् । असंकेतितपरामृष्टाकृतसंकेतैव स्पृष्टा । 'संपर्कक्रिया तु संकेतः

इत्यजयः । आघ्नीये । लिङघुङ्युत्तमपुरुषैकवचनम् । 'आङो यमहन: ' ( । ३१२ )
 
पाठा० -

 
[^
]G. 'निमग्नां'.
[^
]G. 'अतिवेलम्'.
[^
]G. 'आाघ्नीय'.