2023-06-23 15:11:56 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१३०
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
श्वासारम्भकम्पमानकठोरकुचकुङ्ड्मलम्,
आतिरश्चीनबन्धुरशिं[^१]शिरोधरो-
द्देशदृश्यमाननिष्टप्ततपनीय सूत्रपर्य-स्तपद्मरागरुचकम्, अर्धलक्ष्याघर-
धरकर्णपाशनिभृतकुण्डलम्, उपरिपरावृत्तश्रवणपाशरत्न कर्णिका[^२]किरेणम-
ञ्जरीपिञ्जरितविष-मव्या[^३]विद्धा शिथिलशिखण्डबन्धम्, आत्मप्रभापट-
लदुर्लक्ष्यपाटलोत्तराधरविवरम्, गण्डस्थली- संक्रान्तहस्तपल्लवदर्शित-
कर्णावतंसकृत्यम्, उपरिकपोलादर्शतलॅ[^४]तलनिषिक्तचित्रवितानपत्रे[^५]पत्रजाति-

जनितविशेषकक्रियम्, आमीलितलोचनेन्दीवरम्, अविभ्रान्तभ्रू-

पताकम्, उद्भिद्यमानश्रमजलपुलकभिन्नशिथिलचन्दनतिलकम्,
 

 
पदचन्द्रिका ।
 

 
तनुतरमतिकृशम् । अतनुतरो महान् । आ ईषत्तिरश्चीनो वक्रः । बन्धुरः सुन्दरः ।
निष्टप्तं तापितम् । तपनीयं सुवर्णम् । 'तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्'
इत्यमरः । सूत्रं तन्तुः । रुचकोऽड्डुङ्गुलिकामणिः । एवमेव वैजयन्ती । अधरोऽधः

'अधस्तादपि चाधरः' इत्यमरः । परावृत्तः समुत्तानः । एवमेव वैजयन्ती ।
कर्णिका कर्णभूषणम् । 'कर्णिका तालपत्रं स्यात्कुङ्मलं कर्णवेष्टनम्' इत्यमरः ।
पिञ्जरीतं पिङ्गटीकृतम् । विषममयथार्थकम् । व्याविद्धो बद्धः । शिखण्ड: केश-
कलापः । पाटलः श्वेतरक्तः । उत्तराधर उत्तरौष्ठः । गण्डस्थली गल्लप्रदेशस्तत्र
संकान्तो मिलितो हस्तपल्लवः करपल्लवः । कपोल एवादर्शतलम् । निषिक्तं प्रति-
बिम्बितं यच्चित्रवितानमुल्लोचः । 'अस्त्री वितानमुल्लोचः' इत्यमरः । स एव पत्र-
जाति: पत्रक्रिया तया जनितोत्पादिता विशेषकक्रिया तिलकादिक्रिया । 'तमाल-
पत्रतिलकचित्रकाणि विशेषकम्' इत्यमरः । अविभ्रान्ता निश्चला । उद्भिद्यमानं
 

 
भूषणा ।
 

 
श्वासारम्भः श्वासावृत्तिः । रुचकः । 'रुचको मङ्गलद्रव्ये ग्रीवाभरणदन्तयोः' इति
विश्वप्रकाशः । अधरकर्णपाशः शय्यालग्नः कर्णः । अधस्ताद्भूतः कर्णपाशः ।
'अधस्तादपि चाधरः' । इदानीं द्वितीयकर्ण विषयकमाह --उपरीति । परावृत्तः ।
समुत्तानः । कर्णिका कर्णभूषणम् । एवमेवामरः । विषममयथार्थकम् ।

व्याविद्धं बद्धम् । सम्यक्तया न बद्धः तादृशः शिखण्डबन्धः । संक्रान्तो
बिम्बितः । 'संक्रान्तो बिम्बितः समौ' इति वैजयन्ती । निषिक्तं प्रतिबिम्बितम् ।

 
लघुदीपिका ।
 

 
तिवलितमनतिप्रह्वम् । निःश्वासारम्भो निःश्वासावृत्तिः । रुचकः । 'रुचको गुलिका-
मणिः' । अधरकर्णपाशोऽधस्ताद्भुभूतकर्णपाशः । 'अधस्तादपि चाधरः' । 'परावृत्तः
समुत्तानः' इति वैजयन्ती । कर्णिका कर्णभूषणे । विषममयथार्थकम् । 'संक्रान्तो
बिम्बितः समौ' इति वैजयन्ती । पत्रक्रिया पत्रजातिः । पुलकः । 'पुलको बिन्दुरो-
पाठा० -

 
[^
]G. 'शिरोद्देश'.
[^
]G. 'किरणं'.
[^
]G. 'व्याविद्धाशिथिल'.
[^
]G. 'कपोला-
देशतलनिषक' क्त'
[^
]G. 'पत्रक्रिया'.