This page has not been fully proofread.

१३०
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
श्वासारम्भकम्पमानकठोरकुचकुङ्मलम्, आतिरश्चीनबन्धुरशिंरोधरो-
देशदृश्यमाननिष्टप्ततपनीय सूत्रपर्यस्तपद्मरागरुचकम्, अर्धलक्ष्याघर-
कर्णपाशनिभृतकुण्डलम्, उपरिपरावृत्तश्रवणपाशरत्न कर्णिकाकिरेणम-
ञ्जरीपिञ्जरितविषमव्याविद्धा शिथिलशिखण्डबन्धम्, आत्मप्रभापट-
लदुर्लक्ष्यपाटलोत्तराधरविवरम्, गण्डस्थली संक्रान्तहस्तपल्लवदर्शित-
कर्णावतंसकृत्यम्, उपरिकपोलादर्शतलॅनिषिक्तचित्रवितानपत्रेजाति-
जनितविशेषकक्रियम्, आमीलितलोचनेन्दीवरम्, अविभ्रान्तभ्रू-
पताकम्, उद्भिद्यमानश्रमजलपुलकभिन्नशिथिलचन्दनतिलकम्,
 
पदचन्द्रिका ।
 
तनुतरमतिकृशम् । अतनुतरो महान् । आ ईषत्तिरश्चीनो वक्रः । बन्धुरः सुन्दरः ।
निष्टप्तं तापितम् । तपनीयं सुवर्णम् । 'तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम्'
इत्यमरः । सूत्रं तन्तुः । रुचकोऽड्डुलिकामणिः । एवमेव वैजयन्ती । अधरोऽधः
'अधस्तादपि चाधरः' इत्यमरः । परावृत्तः समुत्तानः । एवमेव वैजयन्ती ।
कर्णिका कर्णभूषणम् । 'कर्णिका तालपत्रं स्यात्कुङ्मलं कर्णवेष्टनम्' इत्यमरः ।
पिजरीतं पिगटीकृतम् । विषममयथार्थकम् । व्याविद्धो बद्धः । शिखण्ड: केश-
कलापः । पाटलः श्वेतरतः । उत्तराधर उत्तरौष्ठः । गण्डस्थली गल्लप्रदेशस्तत्र
संकान्तो मिलितो हस्तपल्लवः करपल्लवः । कपोल एवादर्शतलम् । निषिक्तं प्रति-
बिम्बितं यचित्रवितानमुल्लोचः । 'अस्त्री वितानमुल्लोचः' इत्यमरः । स एव पत्र-
जाति: पत्रक्रिया तया जनितोत्पादिता विशेषकक्रिया तिलकादिक्रिया । 'तमाल-
पत्रतिलकचित्रकाणि विशेषकम्' इत्यमरः । अविभ्रान्ता निश्चला । उद्भिद्यमानं
 
भूषणा ।
 
श्वासारम्भः श्वासावृत्तिः । रुचकः । 'रुचको मङ्गलद्रव्ये ग्रीवाभरणदन्तयोः' इति
विश्वप्रकाशः । अधरकर्णपाशः शय्यालग्नः कर्णः । अधस्ताद्भूतः कर्णपाशः ।
'अधस्तादपि चाधरः' । इदानीं द्वितीयकर्ण विषयकमाह --उपरीति । परावृत्तः ।
समुत्तानः । कर्णिका कर्णभूषणम् । एवमेवामरः । विषममयथार्थकम् ।
व्याविद्धं बद्धम् । सम्यक्तया न बद्धः तादृशः शिखण्डबन्धः । संक्रान्तो
बिम्बितः । 'संक्रान्तो बिम्बितः समौ इति वैजयन्ती । निषिक्तं प्रतिबिम्बितम् ।
लघुदीपिका ।
 
तिवलितमनतिप्रहम् । निःश्वासारम्भो निःश्वासावृत्तिः । रुचकः । 'रुचको गुलिका-
मणिः' । अधरकर्णपाशोऽधस्ताद्भुतकर्णपाशः । 'अधस्तादपि चाधरः' । 'परावृत्तः
समुत्तानः' इति वैजयन्ती । कर्णिका कर्णभूषणे । विषममयथार्थकम् । 'संक्रान्तो
बिम्बितः समौ' इति वैजयन्ती । पत्रक्रिया पत्रजातिः । पुलकः । 'पुलको बिन्दुरो-
पाठा० - १ 'शिरोद्देश'. २ 'किरणं'. ३ 'व्याविद्धाशिथिल'. ४ 'कपोला-
देशतलनिषक' ५ 'पत्रक्रिया'.