2023-06-23 07:13:42 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

पर्यन्ते पर्यङ्कतले दक्षिणपादपार्ष्ण्यधोभागा- [^१]नुवलितेतरचरणाग्रपृष्ठम्, ईष[^२]द्विवृत[^३]मधुरगुल्फसंघि, परस्पराश्लिष्टजङ्घाकाण्डम्, आकुञ्चितकोमलोभयजानु, किंचिद्वेल्लितोरुदण्डयुगलम्,अधिनितम्बस्रस्तमुक्तैकभुजलताग्रपे-शलम्, अपाश्रयान्तनिमिता[^४]कुञ्चितेतरभुज-
लतोत्तानतलकरकिसलयम्, आभुग्नश्रोणिमण्डलम्, अतिश्लिष्ट-
चीनांशुकान्त[^५]रीयम्, [^६]अनतिवलिततनुतरोदरम्, [^६]अतनुतरनिः-
 
पदचन्द्रिका ।
 
स्येति । पर्यङ्कः पल्यकः । 'शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः । पार्ष्णि: पादमूलम् । 'पार्ष्णि: पाश्चात्यभागेऽपि पादमूलोन्मदस्त्रियोः' इति विश्वः । अनुवलितं संवृत्तम् । 'संवृत्तः स्यात्संवलितो भिन्नोऽनुवलितोऽपि च ' इति बोपालितः ।
इतरचरणो वामचरणः । गुल्फं घुटिका । 'तद्ग्रन्थी घुटिके गुल्फौ' इत्यमरः । जङ्घा प्रसिद्धा । काण्डं स्तम्भः । 'कुस्थिते रहसि स्तम्भे काण्डं वर्गेऽप्युदाहृतम्' इति विश्वः । आकुञ्चितं संकुचितम् । वेल्लितं वक्रितम् । एवमेव वैजयन्ती । अपाश्रयः शिरोभागः । तथैव वैजयन्ती । निमितं निक्षिप्तम् । 'डुमिञ् प्रक्षेपणे' ।
आभुग्नमीषत्कुटिलम् । चीनांशुकस्य चीनदेशीयवस्त्रस्य । अन्तरीयमधोवस्त्रम् । 'अन्तरीयोपसंव्यानपरिधानान्यधोंशुके' इत्यमरः । अनतिवलितं नातिप्रह्वम् ।
 
भूषणा ।
 
विभागः प्रदेशः । छुरितः शोभितः । पर्यङ्कः शयनम् । शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः । पार्ष्णि: । 'तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः' इत्यमरः । अनुवलितं संवृत्तम् । 'संवृत्त: स्यात्संवलितो भिन्नोऽनुवलितोऽपि च ' इति बोपालितः । ग्रन्थिके घुटिके । 'तद्ग्रन्थी घुटिके गुल्फौ' । वेल्लितं वक्रितम् । 'वेल्लितं वक्रितं समे' इति वैजयन्ती । अधिनितम्बम् । विभ-
क्त्यर्थेऽव्ययीभावः । निमितं निक्षिप्तम् । 'डुमिञ् प्रक्षेपणे' । आभुग्नमीषत्कुटिलम् । 'आभुग्नं कुटिलं भुग्नम्' इत्यमरः । चीनांशुकं वस्त्रम् । अन्तरीयमधोंशुकम् ।
'अन्तरीयोपसंव्यानपरिधानान्यधोंशुके' इत्यमरः ।नातिवलितमीषद्वलितम् ।
 
लघुदीपिका ।
 
विभागः प्रदेशः । पर्यङ्कः । शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः‌' । अनुवलितं संवृत्तम् । 'संवृत्तः स्यात्संवलितो भिन्नोऽनुवलितोऽपि च' इति बोपालितः । 'वेल्लितं वक्रितं समे' इति वैजयन्ती । निमितं निक्षिप्तम् । 'डुमिञ् प्रक्षेपणे' । आभुग्नमीषत्कुटिलम् । 'भुज कौटिल्ये' । 'अन्तरीयोपसंव्यानपरिधानान्योंशुके' । अन'
 
[^१]G. 'अनुवेल्लित'.
[^२]G. 'विवृत्त'.
[^३]G. 'मधुरग्रन्थिके'
[^४]G. 'निहित'.'निमित्त'
[^५]G. 'उत्तरीयम्'
[^६]G. 'नातिवलित'.
[^७]G. 'अणुतर'.