This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका - भूषणा- लघुदीपिकासहितम् ।
 
पर्यन्ते पर्यङ्कतले दक्षिणपादपार्ण्यधोभागानु॑वलितेतरचरणाम-
पृष्ठम्, ईषेद्विवृतैमधुरगुल्फसंधि, परस्पराश्लिष्टजङ्घाकाण्डम्, आकु-
श्चितकोमलोभयजानु, किंचिद्वेल्लितोरुदण्डयुगलम्, अधिनितम्ब-
स्रस्तमुक्तकभुजलताग्रपेशलम् अपाश्रयान्तनिमिताकुञ्चितेतरभुज-
लतोत्तानतलकरकिसलयम्, आभुग्नश्रोणिमण्डलम्, अतिश्लिष्ट-
चीनांशुकान्तेरीयम्, अँनतिवलिततनुतरोदरम्, अतनुतरनिः-
१२९
 
पदचन्द्रिका ।
 
स्येति । पर्यङ्कः पल्यकः । 'शयनं मञ्चपर्यङ्कपल्यङ्काः खद्दया समाः' इत्यमरः । पाणिः
पादमूलम् । 'पाणिः पाश्चात्यभागेऽपि पादमूलोन्मदस्त्रियोः' इति विश्वः । अनु-
वलितं संवृत्तम् । 'संवृत्तः स्यात्संवलितो भिन्नोऽनुवलितोऽपि च ' इति बोपालितः ।
इतरचरणो वामचरणः । गुल्फं घुटिका । 'तद्रन्थी घुटिके गुल्फो इत्यमरः । जवा
प्रसिद्धा । काण्डं स्तम्भः । 'कुस्थिते रहसि स्तम्भे काण्डं वर्गेऽप्युदाहृतम्' इति
विश्वः । आकुञ्चितं संकुचितम् । वेल्लितं वऋितम् । एवमेव वैजयन्ती । अपा-
श्रयः शिरोभागः । तथैव वैजयन्ती । निमितं निक्षिप्तम् । 'डुमिञ् प्रक्षेपण ।
आभुनमीषत्कुटिलम् । चीनांशुकस्य चीनदेशीयवस्त्रस्य । अन्तरीयमधोवस्त्रम् ।
'अन्तरीयोपसंव्यानपरिधानान्यधोंशुके' इत्यमरः । अनतिवलितं नाविप्रहम् ।
 
-
 

 
भूषणा ।
 
विभागः प्रदेशः । छुरितः शोभितः । पर्यङ्कः शयनम् । शयनं मञ्चपर्यङ्कप-
ल्यङ्काः खट्या समाः' इत्यमरः । पाणिः । 'तद्वन्थी घुटिके गुल्फो पुमान्पा-
ष्णिस्तयोरधः' इत्यमरः । अनुवलितं संवृत्तम् । 'संवृत्त: स्यात्संवलितो भिन्नो-
ऽनुवलितोऽपि च ' इति बोपालितः । ग्रन्थिके घुटिके । 'तद्वन्थी घुटिके गुल्फौ' ।
वेल्लितं वऋितम् । 'वेल्लितं वतिं समे' इति वैजयन्ती । अधिनितम्बम् । विभ
क्त्यर्थेऽव्ययीभावः । निमितं निक्षिप्तम् । 'डुमिञ् प्रक्षेपणे' । आभुग्नमीषत्कुटिलम् ।
'आभुमं कुटिलं भुग्नम्' इत्यमरः । चीनांशुकं वस्त्रम् । अन्तरीयमधशुकम् ।
'अन्तरीयोपसंव्यानपरिधानान्यधोंशुके' इत्यमरः । नातिवलितमीषद्वलितम् ।
लघुदीपिका ।
 
विभागः प्रदेशः । पर्यङ्कः । शयनं मञ्चपर्यङ्कपल्यङ्काः खद्दया समाः । अनुवलितं
संवृत्तम् । 'संवृत्तः स्यात्संवलितो भिन्नोऽनुवलितोऽपि च' इति बोपालितः ।
'वेल्लितं वक्रितं समे' इति वैजयन्ती । निमितं निक्षिप्तम् । 'डुमिञ् प्रक्षेपणे' । आभु-
नमीषत्कुटिलम् । 'भुज कौटिल्ये' । 'अन्तरीयोपसंव्यानपरिधानान्योंशुके' । अन
 
1
 
पाठा०-१ 'अनुवेल्लित'. २ 'विवृत्त'. ३ 'मधुरग्रन्थिके' ४ 'निहित'.
'निमित्त' ५ 'उत्तरीयम्' ६ 'नातिवलित'. ७ 'अणुतर'.