2023-06-23 06:46:38 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
नान्यनुभूय नित्यान्धकारात्काराभित्तिकोणादारभ्योरगास्येन सुरङ्गा-
मकरवम् । अचिन्तयं चैवम् – 'हन्तुमनसैवामुना मन्मोचनाय
शपथः कृतः । तदेनं हत्वापि नासत्यवाददोषेण स्पृश्ये' इति ।
निष्पततश्च मे निगडनाय प्रसार्यमाणपाणेस्तस्य पादेनोरसि निहत्य
पतितस्य तस्यैवासिधेन्वा शिरो न्यकृन्तम् । अकथयं च शृगा-
लिकाम् – 'भण भद्रे, कथंभूतः [^१]कन्यापुरसंनिवेशो महानयं
प्रयासो मा वृथैव भूत् । अमुत्र किंचिच्चोरयित्वा निवर्तिष्ये' इति ।
तदुपदर्शित [^२]विभागे चावगाह्य कन्यान्तःपुरं प्रज्वलत्सु मणिप्रदीपेषु नैकक्रीडाखेदसुप्तस्य परिजनस्य मध्ये [^३]महितमहार्घरत्नप्रसुप्तसिंहाकारदन्तपादे हंसतूल[^३]गर्भशय्योपधानशालिनि कुसुमलवच्छुरित-
पदचन्द्रिका ।
टीकरणाय विनिगडीकृतः । मुक्त इत्यर्थः ।नित्यान्धकारादखण्डतमसः । उरगास्येन फणिमुखाकारखननसाधनेन । अचिन्तयं चैवमेवं वक्ष्यमाणं चिन्तितवान् । हन्तुमनसैव मन्मारणनिश्चितचेतसा । एनं कान्तकम् । निष्पततो निर्गच्छतः । तस्यैव कान्तकस्यैव । असिधेन्वा छुरिकया । 'छुरिका चासिधेनुका' इत्यमरः ।
न्यकृन्तं कृत्तवानस्मि । भण । कथयेत्यर्थः । संनिवेशः । संस्थानम् । 'संस्थानं संनिवेशे च स्वरूपे च निगद्यते' इति वररुचिः । अयं प्रयासः सुरङ्गकरणक्लेशः । मा भूत् । 'न माङ्योगे' (६।४।७४) इत्यडागमाभावः । अमुत्र कन्यापुरे । तदुपदर्शितविभागे शृगालिकाकथितप्रदेशे । नैकक्रीडा बहुक्रीडा । महितानि स्थूलानि महार्घाणि बहुमूल्यानि रत्नानि तद्युक्ताः प्रसुप्तसिंहाकारा दन्तपादा यस्येति तस्मिन् । हंसतूलः पक्षिपक्ष्माणि गर्भे यस्या एवंविधा शय्यास्तरणम् । उपधानमुपबईःर्ह: । एवमेवामरः । 'उशी' इति भाषाप्रसिद्धम् । कुसुमलवैश्छुरितो मिश्रितः पर्यन्तो य-
भूषणा ।
एवात्र भूयान् । नयो नीतिर्भूयसीत्यर्थः । उरुगास्येन फणिमुखेन । निष्पततो निर्गच्छतः । असिधेन्वा छुरिकया। 'छुरिका चासिधेनुका' इत्यमरः । संस्थानं संनिवेश: । 'संस्थानं संनिवेशे च स्वरूपे च निगद्यते' इति वररुचिः ।
लघुदीपिका ।
वैजयन्ती । उरगास्येन फणिमुखेन । निष्पततो निर्गच्छतः । असिधेन्वा छुरिकया, संस्थानं संनिवेश: । 'संस्थानं संनिवेशे च
स्वरूपे च निगद्यते' इति वररुचिः ।
[^१]G. 'कन्यापुरसंस्थानम्
[^२]G. 'विभागम्'; 'विभागः'.
[^३]G. 'महार्हरत्नप्रत्युप्त', 'महति महार्हरत्नप्रत्युप्त'
[^४]G. 'गर्भकोमलशय्या'.
मकरवम् । अचिन्तयं चैवम् – 'हन्तुमनसैवामुना मन्मोचनाय
शपथः कृतः । तदेनं हत्वापि नासत्यवाददोषेण स्पृश्ये' इति ।
निष्पततश्च मे निगडनाय प्रसार्यमाणपाणेस्तस्य पादेनोरसि निहत्य
पतितस्य तस्यैवासिधेन्वा शिरो न्यकृन्तम् । अकथयं च शृगा-
लिकाम् – 'भण भद्रे, कथंभूतः [^१]कन्यापुरसंनिवेशो महानयं
प्रयासो मा वृथैव भूत् । अमुत्र किंचिच्चोरयित्वा निवर्तिष्ये' इति ।
तदुपदर्शित [^२]विभागे चावगाह्य कन्यान्तःपुरं प्रज्वलत्सु मणिप्रदीपेषु नैकक्रीडाखेदसुप्तस्य परिजनस्य मध्ये [^३]महितमहार्घरत्नप्रसुप्तसिंहाकारदन्तपादे हंसतूल[^३]गर्भशय्योपधानशालिनि कुसुमलवच्छुरित-
पदचन्द्रिका ।
टीकरणाय विनिगडीकृतः । मुक्त इत्यर्थः ।नित्यान्धकारादखण्डतमसः । उरगास्येन फणिमुखाकारखननसाधनेन । अचिन्तयं चैवमेवं वक्ष्यमाणं चिन्तितवान् । हन्तुमनसैव मन्मारणनिश्चितचेतसा । एनं कान्तकम् । निष्पततो निर्गच्छतः । तस्यैव कान्तकस्यैव । असिधेन्वा छुरिकया । 'छुरिका चासिधेनुका' इत्यमरः ।
न्यकृन्तं कृत्तवानस्मि । भण । कथयेत्यर्थः । संनिवेशः । संस्थानम् । 'संस्थानं संनिवेशे च स्वरूपे च निगद्यते' इति वररुचिः । अयं प्रयासः सुरङ्गकरणक्लेशः । मा भूत् । 'न माङ्योगे' (६।४।७४) इत्यडागमाभावः । अमुत्र कन्यापुरे । तदुपदर्शितविभागे शृगालिकाकथितप्रदेशे । नैकक्रीडा बहुक्रीडा । महितानि स्थूलानि महार्घाणि बहुमूल्यानि रत्नानि तद्युक्ताः प्रसुप्तसिंहाकारा दन्तपादा यस्येति तस्मिन् । हंसतूलः पक्षिपक्ष्माणि गर्भे यस्या एवंविधा शय्यास्तरणम् । उपधानमुपब