2023-06-23 06:44:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१२८
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
नान्यनुभूय
 
नित्यान्धकारात्काराभित्तिकोणादारभ्योरगास्येन सुरङ्गा-

मकरवम् । अचिन्तयं चैवम् – 'हन्तुमनसैवामुना मन्मोचनाय

शपथः कृतः । तद्देनं हत्वापि नासत्यवाददोषेण स्पृश्ये' इति ।

निष्पततश्च मे निगडनाय प्रसार्यमाणपाणेस्तस्य पादेनोरसि निहत्य

पतितस्य तस्यैवासिधेन्वा शिरो न्यकृन्तम् । अकथयं च शृगा-

लिकाम् – 'भण भद्रे, कथंभूतः कै[^१]कन्यापुरसंनिवेशो महानयं


प्रयासो मा वृथैव भूत् । अमुत्र किंचिच्चोरयित्वा निवर्तिष्ये' इति ।

तदुपदर्शित [^२]विभागे चावगाह्य कन्यान्तः पुरं प्रज्वलत्सु मणिप्रदीपेषु
नैकक्रीडा खेदसुप्तस्य परिजनस्य मध्ये मँ[^३]महितमहार्घरत्नप्रसुप्तसिंहा-
कारदन्तपादे हंसतूल[^३]गर्भशय्योपधानशालिनि कुसुमलवच्छुरित-

 
पदचन्द्रिका ।
 
-
 

 
टीकरणाय विनिगडीकृतः । मुक्त इत्यर्थः । नित्यान्धकारादखण्डतमसः । उरगा-
स्पे
स्येन फणिमुखाकार खननसानेन । अचिन्तयं चैवमेवं वक्ष्यमाणं चिन्तितवान् ।
हन्तुमनसैव मन्मारणनिश्चितचेतसा । एनं कान्तकम् । निष्पततो निर्गच्छतः ।
तस्यैव कान्तकस्यैव । असिधेन्वा छुरिकया । 'छुरिका चासिधेनुका' इत्यमरः ।

न्यकृन्तं कृत्तवानस्मि । भण । कथयेत्यर्थः । संनिवेशः । संस्थानम् । 'संस्थानं
संनिवेशे च स्वरूपे च निगद्यते' इति वररुचिः । अयं प्रयासः सुरङ्गकरणक्लेशः । मा
भूत् । 'न माज्ङ्योगे' (६।४।७४) इत्यडागमाभावः । अमुत्र कन्यापुरे । तदुपदर्शितवि-
भागे शृगालिकाकथितप्रदेशे । नैकक्रीडा बहुक्रीडा । महितानि स्थूलानि महार्षाघाणि
बहुमूल्यानि रत्नानि तद्युक्ताः प्रसुप्तसिंहाकारा दन्तपादा यस्येति तस्मिन् । हंस-
तूलः पक्षिपक्ष्माणि गर्भे यस्या एवंविधा शय्यास्तरणम् । उपधानमुपबईः । एव-
मेवामरः । 'उशी' इति भाषाप्रसिद्धम् । कुसुमलवैश्छुरितो मिश्रितः पर्यन्तो य-

 
भूषणा ।
 

 
एवात्र भूवायान् । नयो नीतिर्भूयसीत्यर्थः । उरुगास्येन फणिमुखेन । निष्पततो
निर्गच्छतः । असिधेन्वा छुरिकया। 'छुरिका चासिधेनुका' इत्यमरः । संस्थानं
संनिवेश: । 'संस्थानं संनिवेशे च स्वरूपे च निगद्यते' इति वररुचिः ।
 

 
लघुदीपिका ।
 
चै

 
वै
जयन्ती । उरगास्येन फणिमुखेन । निष्पततो निर्गच्छतः । असिधेन्वा छुरिकया,
संस्थानं संनिवेश: । 'संस्थानं संनिवेशे च
स्व
रूपे च निगद्यते' इति वररुचिः ।
 
पाठा० -

 
[^
]G. 'कन्यापुरसंस्थानम्
[^
]G. 'विभागम्'; 'विभागः'.
[^
]G. 'महाई-
रख
र्हरत्नप्रत्युप्त', 'महति महाईरखर्हरत्नप्रत्युस' प्त'
[^
]G. 'गर्भकोमलशय्या'.