This page has not been fully proofread.

१२८
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
नान्यनुभूय
 
नित्यान्धकारात्काराभित्तिकोणादारभ्योरगास्येन सुरङ्गा-
मकरवम् । अचिन्तयं चैवम् – 'हन्तुमनसैवामुना मन्मोचनाय
शपथः कृतः । तद्नं हत्वापि नासत्यवाददोषेण स्पृश्ये' इति ।
निष्पततश्च मे निगडनाय प्रसार्यमाणपाणेस्तस्य पादेनोरसि निहत्य
पतितस्य तस्यैवासिधेन्वा शिरो न्यकृन्तम् । अकथयं च शृगा-
लिकाम् – 'भण भद्रे, कथंभूतः कैन्यापुरसंनिवेशो महानयं

प्रयासो मा वृथैव भूत् । अमुत्र किंचिच्चोरयित्वा निवर्तिष्ये' इति ।
तदुपदर्शितविभागे चावगाह्य कन्यान्तः पुरं प्रज्वलत्सु मणिप्रदीपेषु
नैकक्रीडा खेदसुप्तस्य परिजनस्य मध्ये मँहितमहार्घरत्नप्रसुप्तसिंहा-
कारदन्तपादे हंसतूलगर्भशय्योपधानशालिनि कुसुमलवच्छुरित-
पदचन्द्रिका ।
 
-
 
टीकरणाय विनिगडीकृतः । मुक्त इत्यर्थः । नित्यान्धकारादखण्डतमसः । उरगा-
स्पेन फणिमुखाकार खननसावनेन । अचिन्तयं चैवमेवं वक्ष्यमाणं चिन्तितवान् ।
हन्तुमनसैव मन्मारणनिश्चितचेतसा । एनं कान्तकम् । निष्पततो निर्गच्छतः ।
तस्यैव कान्तकस्यैव । असिधेन्वा छुरिकया । 'छुरिका चासिधेनुका' इत्यमरः ।
न्यकृन्तं कृत्तवानस्मि । भण । कथयेत्यर्थः । संनिवेशः । संस्थानम् । 'संस्थानं
संनिवेशे च खरूपे च निगद्यते' इति वररुचिः । अयं प्रयासः सुरङ्गकरणक्लेशः । मा
भूत् । 'न माज्योगे' (६।४।७४) इत्यडागमाभावः । अमुत्र कन्यापुरे । तदुपदर्शितवि-
भागे शृगालिकाकथितप्रदेशे । नैकक्रीडा बहुक्रीडा । महितानि स्थूलानि महार्षाणि
बहुमूल्यानि रत्नानि तद्युक्ताः प्रसुप्तसिंहाकारा दन्तपादा यस्येति तस्मिन् । हंस-
तूलः पक्षिपक्ष्माणि गर्भे यस्या एवंविधा शय्यास्तरणम् । उपधानमुपबईः । एव-
मेवामरः । 'उशी' इति भाषाप्रसिद्धम् । कुसुमलवैश्छुरितो मिश्रितः पर्यन्तो य-
भूषणा ।
 
एवात्र भूवान् । नयो नीतिर्भूयसीत्यर्थः । उरुगास्येन फणिमुखेन । निष्पततो
निर्गच्छतः । असिधेन्वा छुरिकया। 'छुरिका चासिधेनुका' इत्यमरः । संस्थानं
संनिवेश: । 'संस्थानं संनिवेशे च स्वरूपे च निगद्यते' इति वररुचिः ।
 
लघुदीपिका ।
 
चैजयन्ती । उरगास्येन फणिमुखेन । निष्पततो निर्गच्छतः । असिधेन्वा छुरिकया,
संस्थानं संनिवेश: । 'संस्थानं संनिवेशे च खरूपे च निगद्यते' इति वररुचिः ।
 
पाठा० - १ 'कन्यापुरसंस्थानम् २ 'विभागम्'; 'विभागः'. ३ 'महाई-
रखप्रत्युस', 'महति महाईरखप्रत्युस' ४ 'गर्भकोमलशय्या.