2023-06-18 16:47:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
१२७
 
दस्मदायत्तैव रक्षा । रक्ततरो हि तस्याः परिजनो न रहस्यं

भेत्स्यति' इति । सोऽब्रवीत् – 'साधु भद्रे, दर्शितम् । अस्ति

कश्चित्तस्करः खननकर्मणि सगरसुतानामिवान्यतमः । स चेल्लब्धः

क्षणेनैतत्कर्म साधयिष्यति' इति । 'कतमोऽसौ, किमिति न

लभ्यते ?" इति मयोक्ते 'येन तद्धनमित्रस्य चर्मरत्नं मुषितम्' इति

त्वामेव निरदिक्षत् । 'यद्येवमेहि, त्वयास्मिन्कर्मणि साधिते चित्रै-

रुपायैस्त्वामहं मोचयिष्यामी 'ति शपथपूर्वं [^१]तेनाभिसंधाय सिद्धेऽर्थे
भूयोऽपि निगडयित्वा 'योऽसौ चोरः स सर्वथोपक्रान्तः, न तु
धार्श्वष्ट्यभूमिः प्रकृष्टवैरस्तदजिनरत्नं दर्शयिष्यति' इति राज्ञे

विज्ञाप्य 'चित्रमेनं हे[^२]हनिष्यसि । तथा च सत्यर्थः सिद्ध्यति, रहस्यं च
न स्रवति' इति मयोक्ते सोऽतिहृष्टः प्रतिपद्य 'मामेव त्वदुपप्रलो-
भने नियुज्य बहिरवस्थितः । [^३]प्राप्तमितः परं चिन्त्यताम्' इति ।
प्रीतेन च मयोक्तम् – 'मदुक्तमल्पम्, त्वन्नय एवात्र भूयान् ।
आनयैनम्' इति । अथानीतेनामुना मन्मोचनाय शपथः कृतः,
मया च रहस्यानिर्भेदाय । विनिगडीकृतश्च स्नानभोजनविलेप-

 
पदचन्द्रिका ।
 

 
यत्तास्मदधीना । 'अधीनो निम्न आयत्तः' इत्यमरः । परिजनः सेवकलोकः ।
रहस्यं गोप्यम् । न भेत्स्यति न प्रकटं करिष्यति । अस्तीति । अन्यतम एकः ।
किमिति न लभ्यते किमिति न प्राप्यते । निरदिक्षन्निर्दिष्टवान् । तेन चौरेण
सह । अभिसंधाय । प्रतिज्ञायेत्यर्थः । सिद्धेऽर्थे कार्ये संपन्ने । निगडयित्वा बद्धा ।
ध्वा ।
उपक्रान्तश्चिकित्सितः । धार्ध्ष्ट्यभूमिर्धृष्टतरः । चित्रमनेकप्रकारम् । हनिष्यसि मारयि-
ध्
ष्यसि । न स्रवति न प्रकटीकरोति । प्रतिपद्याभ्युपगम्य । त्वदुपप्रलोभने त्वद्वशी-
करणे । प्राप्तं कर्तव्यम् । 'प्राप्तं युग्यं च कर्तव्यम्' इति वैजयन्ती । त्वन्नय एव

त्व
न्नीतिरेव । आनयैनमिति । एनं कान्तकम् । रहस्यानिर्भेदाय गोप्यस्याप्रक
 

 
भूषणा ।
 

 
क्षन्निर्दिष्टवान् । यद्येवमेहीति । तस्यैव प्रलोभनायेति शेषः । तत्प्रकारमाह -
त्वयेत्यादिना । उपक्रान्तश्चिकित्सितः । प्रतिपद्याभ्युपगम्य । मदुक्तमिति शेषः ।

प्राप्तरूपं च कर्तव्यम् । 'प्राप्तं युग्यं च कर्तव्यम्' इति वैजयन्ती । त्वन्नय-

 
लघुदीपिका ।
 

 
कित्सितः । प्रतिपद्याभ्युपगम्य । प्राप्तं कर्तव्यम् । 'प्राप्तं युग्यं च कर्तव्यम्' इति
पाठा० -

 
[^
]G. 'संधाय'.
[^२]G. '
घातयिष्यासि'. २ 'घातयिष्यास'
[^३]G
. 'प्राप्तरूपम्'.