This page has not been fully proofread.

१२६
 
दशकुमारचरितम् ।
 
[ द्वितीयः
 
इत्थं च संधुक्षितमन्मथाग्भिः स एवैकान्ते मयोपमन्त्रितो-
ऽभूत् - 'आर्य, लक्षणान्येव तवाविसंवादीनि । तथा हि मत्प्राति -
वेश्यः कश्चित्कार्तान्तिकः 'कान्तकस्य हस्ते राज्यमिदं पतिष्यति,
तादृशानि तस्य लक्षणानि' इत्यादिक्षत् । तद्नुरूपमेव च त्वामियं
राजकन्यका कामयते । तदेकापत्यश्च राजा तया त्वां समागतमुप-
लभ्य कुपितोऽपि दुहितुर्मरणभयान्नोच्छेत्स्यति । प्रत्युत प्रापयिष्य-
त्येव यौवराज्यम् । इत्थं चायमर्थोऽर्थानुबन्धी । किमिति तात,
नाराध्यते । यदि कुमारीपुर प्रवेशाभ्युपायं नावबुध्यसे ननु बन्ध-
नागारभित्तेर्व्यामत्रयमन्तरालमारामप्राकारस्य केनचित्तु हस्तवतै-
कागारिकेण तावतीं सुरङ्गां कारयित्वा प्रविष्टस्योपवनं तवोपरिष्टा-
पदचन्द्रिका ।
 
तदीयानि कान्तकसंबन्धीनि । उपादाय गृहीत्वा । छन्नमेव गुप्तमेव । अपोढानि
व्यक्तानि । 'अपोढमपविद्धं च विस्पष्टं त्यक्तमित्यपि' इति वैजयन्ती ॥
 
इत्थमिति । संधुक्षितो वृद्धिं प्रापितः । स एव कान्तक एव । उपमन्त्रित उप-
दिष्टः । अविसंवादीनि विसंवादरहितानि । 'प्रतिवेशे चरति यः प्रातिवेश्यः स उच्यते'
इति वैजयन्ती । 'कार्तान्तिको लक्षणशः' इति वैजयन्ती । आदिक्षदवोचत् । तदनुरूपं
तदनुकूलम् । कामयते प्रार्थयते । तदेकापत्यः सैवैकमपत्यं यस्येति स तथा । समा-
गतं संगतम् । नोच्छेत्स्यति नोच्छेदं करिष्यति । अर्थानुबन्धी राजरूपार्थ संबन्धी ।
तातेल्यात्मीयतासूचकं संबोधनम् । व्यामन्त्रयम् । व्यामः परिमाणविशेषः । भाषया
'वांव' इति प्रसिद्धः । 'व्यामो बाह्रोः सकरयोस्ततयोस्तिर्यगन्तरम्' इत्यमरः ।
आराम उपवनम् । प्राकारो वरणः । 'प्राकारो वरणः सालः' इत्यमरः । हस्तवता
शिक्षितहस्तेन । ऐकागारिकेण चौरेण । 'चौरैकागारिकस्तेनदस्युतस्करमोषकाः'
इत्यमरः । तावतीं तत्प्रमाणाम् । सुरङ्गा भूम्यन्तर्गतखनितमार्गविशेषः । अस्मदा-
भूषणा ।
 
पूरणम् । अत एवाग्रे 'अन्येधुः' इति संगच्छते । अपोढान्यपविद्धानि । 'अपो-
ढमपविद्धं च विकृष्टं त्यक्तमित्यपि' इति वैजयन्ती । प्रातिवेश्यः । 'प्रतिवेशे
चरति यः प्रातिवेश्यः स उच्यते' इति वैजयन्ती । आदिक्षदवोचत् । व्यामो
बाह्वोरन्तरालम् । 'व्यामो बाह्रोः सकरयोस्ततयोस्तिर्यगन्तरम्' इत्यमरः ।
ऐकागारिकञ्चौरः । 'चौरैकागारिकस्तेनदस्युतस्करमोषकाः' इत्यमरः । निरदि-
लघुदीपिका ।
 
अपोढान्यपविद्धानि । 'अपोढमपविद्धं च विकृष्टं त्यक्तमित्यपि इति वैजयन्ती ।
प्रातिवेश्यः । 'प्रतिवेशे चरति यः प्रातिवेश्यः स उच्यते' इति वैजयन्ती । आदिक्ष-
दवोचत् । 'व्यामो बाह्रोः सकरयोस्ततयोस्तिर्यगन्तरम् ।' ऐकागारिकञ्चौरः ।
'चौरैकागारिकस्तेन दस्युतस्करमोषकाः' । निरदिक्षन्निर्दिष्टवान् । उपक्रान्तश्चि-