2023-06-18 15:32:11 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

येत्तथा मयापि संज्ञयैव किमपि चतुरमाचेष्टितम् । आकृष्ट-
धन्वना च मनसिजेन विद्धः सन्दिग्धफलेन पत्रिणातिमुग्धः
कथंकथमप्यपासरत् । सायं च राजकन्याङ्गुलीयकमुद्रितां वास-
ताम्बूलपट्टांशुकयुगलभूषणावयवगर्भां च [^१]वङ्गेरिकां
कयाचिद्बालिकया ग्राहयित्वा रागमञ्जर्या इति नीत्वा कान्तकस्यागारमगाम् । अगाधे च रागसागरे मग्नो नावमिव मामुपलभ्य परमहृष्यत् । अवस्थान्तराणि च राजदुहितुः सुदारुणानि व्यावर्णयन्त्या मया स दुर्मतिः सुदूरमुदमाद्यत । तत्प्रार्थिता चाहं त्वत्प्रियाप्रहितमिति ममैव मुखताम्बूलोच्छिष्टानुलेपनं निर्माल्यं मलिनांशुकं चान्येद्यु-रुपाहरम् । तदीयानि च राजकन्यार्थमित्युपादाय च्छन्नमेवा[^१पोढानि ।
 
पदचन्द्रिका ।
 
आत्मनि योऽभिलाषः स मूलं कारणं यत्रेति तथा । संकल्पयेच्चिन्तयेत् । चतुरमाचेष्टितम् । कृतमित्यर्थः । आकृष्टधन्वनाकर्षितधनुषा । विद्धो भिन्नः । दिग्धं विषलिप्तम् । 'दिग्धलिप्तौ विषाक्ते च' इति वैजयन्ती । फलं शल्यं यस्येति स
तथा तेन । सायं चेति । राजकन्याया अङ्गुलीयकं मुद्रिका तया मुद्रितां कृतमुद्राम् । वासताम्बूलं सहकारतैलकर्पूरादिभिः सुगन्धीकृतं ताम्बूलम् । 'घनसारादिभिर्यत्तु वासितं वासमुच्यते' इति वैजयन्ती । पट्टांशुकयुगलं पट्टवस्त्रयुगलम् । भूषणावयवाः कतिपयभूषणानि तद्गर्भाम् । वङ्गेरिकां वेत्रपुटिकाम् । 'झांपी' इति
भाषायाम् । 'वङ्गेरी वेत्रपुटिका' इति वैजयन्ती । अगाधे चेति । अगाधेऽतलस्पर्शे । अहृष्यद्धर्ष प्राप । सुदारुणान्यसह्यानि । स दुर्मतिः कान्तकः । सुदूरमत्यन्तम् । उदमाद्यत । उन्ममादेत्यर्थः । तत्प्रार्थिता तेन कान्तकेन प्रार्थिता । त्वत्प्रियाप्रहितमिति
प्रेषितमिति । उच्छिष्टानुलेपनं स्वभुक्तावशिष्टाङ्गरागम् ।
 
भूषणा ।
 
नागलोके रतेऽपि च' इत्यजयः । संकल्पयेच्चिन्तयेत् । दिग्धं विषलिप्तम् । 'विषाक्ते दिग्धलिप्तकौ' इत्यमरः । वासताम्बूलमेलालवङ्गकर्पूरादिसुगन्धीकृतम् । 'घनसारादिभिर्यत्तु वासितुं वासमुच्यते' इति वैजयन्ती । भूषणावयवं
कानिचिद्भुषणानि । पेटिकाम् । 'पिटकः पेटकः पेटा' इत्यमरः । रागमञ्जर्या इत्युक्त्वा । नीला स्वगृहे स्थापयित्वा । एकाकिनी (?) । कान्तकस्येति शेष-
 
लघुदीपिका ।
 
इत्यजयः । संकल्पयेच्चिन्तयेत् । दिग्धं विषलिप्तम् । 'दिग्धलिप्तौ विषाक्ते च' इति वैजयन्ती । वासताम्बूलं सहकारतैलकर्पूरादिभिः सुगन्धीकृतम् । 'घनसारादिभिर्यत्तु वासितं वासमुच्यते' इति वैजयन्ती । वङ्गेरिका । वङ्गेरी वेत्रपुटिका ।
 
[^१]G. 'पेटिकाम्'.
[^२]G. 'अपाविध्य प्राक्षिपम्', 'च्छन्नमेवप्राक्षिपम्',