2023-06-18 15:25:58 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
 
१२५
 
येत्तथा मयापि संज्ञयैव किमपि चतुरमाचेष्टितम् । आकृष्ट-

धन्वना च मनसिजेन विद्धः सन्दिग्धफलेन पत्रिणातिमुग्धः

कथंकथमप्यपासरत् । सायं च राजकन्याङ्गुलीयकमुद्रितां वास-

ताम्बूलपट्टांशुकयुगलभूषणावयवगर्भाभांवै[^१]वङ्गेरिकां
कयाचिद्वाबालि-
कया ग्राहयित्वा रागमञ्जर्या इति नीत्वा कान्तकस्यागारमगाम् ।
अगाधे च रागसागरे मग्नो नावमिव मामुपलभ्य परमहृष्यत् ।
अवस्थान्तराणि च राजदुहितुः सुदारुणानि व्यावर्णयन्त्या मया
स दुर्मतिः सुदूरमुदमाद्यत । तत्प्रार्थिता चाहं त्वत्प्रियाप्रहितमिति
ममैव मुखताम्बूलोच्छिष्टानुलेपनं निर्माल्यं मलिनांशुकं चान्येद्यु-
रुपाहरम् । तदीयानि च राजकन्यार्थमित्युपादाय च्छन्नमेवा[^१पोढानि ।

 
पदचन्द्रिका ।
 

 
आत्मनि योऽभिलाषः स मूलं कारणं यत्रेति तथा । संकल्पयेच्चिन्तयेत् । चतुर-
माचेष्टितम् । कृतमित्यर्थः । आकृष्टधन्वनाकर्षितधनुषा । विद्धो भिन्नः । दिग्वं
धं विषलिप्तम् । 'दिग्धलिप्तौ विषाक्ते च' इति वैजयन्ती । फलं शल्यं यस्येति स

तथा तेन । सायं चेति । राजकन्याया अङ्गुलीयकं मुद्रिका तया मुद्रितां कृत-
मुद्राम् । वासताम्बूलं सहकारतैलकर्पूरादिभिः सुगन्धीकृतं ताम्बूलम् । 'घनसारा-
दिभिर्यत्तु वासितं वासमुच्यते' इति वैजयन्ती । पट्टांशुकयुगलं पट्टवस्त्रयुगलम् ।
भूषणावयवाः कतिपयभूषणानि तद्गर्भाम् । वज्ञेङ्गेरिकां वेत्रपुटिकाम् । 'झांपी' इति

भाषायाम् । 'वजेङ्गेरी वेत्रपुटिका' इति वैजयन्ती । अगाधे चेति । अगावेधेऽतल-
स्पर्शे । अहृष्यद्धर्ष प्राप । सुदारुणान्यसह्यानि । स दुर्मतिः कान्तकः । सुदूरम-
त्यन्तम् । उदमाद्यत । उन्ममादेत्यर्थः । तत्प्रार्थिता तेन कान्तकेन प्रार्थिता ।
त्वत्प्रियाप्रहितमिति प्रेषितमिति । उच्छिष्टानुलेपनं स्वभुक्तावशिष्टाङ्गरागम् ।

 
भूषणा ।
 

 
नागलोके रतेऽपि च' इत्यजयः । संकल्पयेच्चिन्तयेत् । दिग्धं विषलिप्तम् ।
'विषाक्ते दिग्धलिप्तकौ' इत्यमरः । वासताम्बूलमेलालवङ्गकर्पूरादिसुगन्धीकृ-
तम् । 'घनसारादिभिर्यत्तु वासितुं वासमुच्यते' इति वैजयन्ती । भूषणावयवं

कानिचिद्भुषणानि । पेटिकाम् । 'पिटकः पेटकः पेटा' इत्यमरः । रागमञ्जर्या
इत्युक्त्वा । नीला स्वगृहे स्थापयित्वा । एकाकिनी (?) । कान्तकस्येति शेष-

 
लघुदीपिका ।
 

 
इत्यजयः । संकल्पयेच्चिन्तयेत् । दिग्धं विषलिप्तम् । 'दिग्लिप्तौ विषाक्चेते च' इति
वैजयन्ती । वासताम्बूलं सहकारतैलकर्पूरादिभिः सुगन्धीकृतम् । 'घनसारादि-
भिर्यत्तु वासितं वासमुच्यते' इति वैजयन्ती । वङ्गेरिका । बजेवङ्गेरी वेत्रपुटिका ।
काठा० -

 
[^
]G. 'पेटिकाम्'.
[^
]G. 'अपाविध्य प्राक्षिपम्', 'च्छन्नमेवप्राक्षिपम्',