2023-06-18 14:51:09 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मार्गेणान्वरञ्जयम् । तामेव च संक्रमीकृत्य रागमञ्जर्याश्चाम्बालि-
कायाः सख्यं परमवीवृधम् । अहरहश्च नवनवानि प्राभृतान्युप-
हरन्ती कथाश्चित्राश्चित्तहारिणीः कथयन्ती तस्याः परं प्रसादपात्र-
मासम् । एकदा च [^१]हर्म्यगतायास्तस्याः स्थानस्थितमपि कर्णकुवलयं त्रस्तमिति समादधती प्रमत्तेव प्रच्याव्य पुनरुत्क्षिप्य भूमेस्तेनोपकन्यापुरं कारणेन केनापि भवनाङ्गणं प्रविष्टस्य कान्तकस्योपरि [^२]प्रवृत्तकुहरपारावतत्रासनापदेशात्प्रहसन्ती प्राहार्षम् । सोऽपि तेन धन्यंमन्यः किंचिदुन्मुखः स्मयमानो मत्कर्म- [^३]प्रहासितया राजदुहितुर्विलासप्रायमाकरमात्माभिलापमूलमिव यथा संकल्प-
 
पदचन्द्रिका ।
 
त्वदभिज्ञानप्रत्यायितायास्त्वत्प्रत्यायकवस्तुविश्वासितायाः । संक्रमीकृत्योपायीकृत्य । 'प्रत्युपाये संक्रमे च निश्रेण्यां संक्रमो मतः' इत्युत्पलिनी । अम्बालिका राजकन्या । अवीवृधम् । अवर्धयमित्यर्थः । प्राभृतान्युपायनानि । 'प्राभृतं तु प्रदेशनम् । उपायनमुपग्राह्यम्' इत्यमरः । चित्तहारिणीर्मनोहराः । तस्या अम्बालिकायाः । एकदेति । हर्म्यगताया गृहगतायाः । स्थानस्थितमपि यथास्थितमपि । स्रस्तमिति गलितमिति । समादधती सज्जयती । प्रमत्तेवानवहितेव । प्रच्याव्य पातयित्वा । तेन कर्णकुवलयेन । उपकन्यापुरं कन्यान्तःपुरसमीपे ।
कान्तस्य कारापतेः । प्रवृत्तकुहर आरब्धसुरतः । 'कुहरं सुषिरे दम्भे नागलोके रतेऽपि च' इत्यजयः । पारावतः कपोतः । 'पारावतः कलरवः कपोतः' इत्यमरः । तस्य त्रासनापदेशाद्भयोत्पादनमिषात् । प्राहार्षम् । 'हन हिंसागत्योः' इति धातोः । सोऽपि कान्तकः । तेन कर्णकुवलयप्रहारेण । स्मयमानः स्मयतेऽसौ तथा ।
 
भूषणा ।
 
प्रत्यायिताया विश्वस्तायाः संक्रमीकृत्योपायीकृत्य । 'प्रत्युपाये संक्रमे च निश्रेण्यां संक्रमः स्मृतः' इत्युत्पलिनी । प्राभृतान्युपायनानि । 'प्राभृतं तु प्रदेशनम्' इत्यमरः । प्रमत्तानवहिता । 'प्रमादोऽनवधानता' इत्यमरः । प्रच्याव्य पातयित्वा । तेन कुवलयेन । प्रसक्तकुहर आरब्धसुरतः । 'कुहरं सुषिरे दम्भे
 
लघुदीपिका ।
 
सियिताया विश्वस्तायाः । संक्रमीकृत्योपायीकृत्य । 'प्रत्युपाये संक्रमे च निश्रेण्यां संक्रमः स्मृतः' इत्युत्पलः । प्रमत्तानवहिता । 'प्रमादोऽनवधानता' । प्रच्याव्य प्रच्युतं कृत्वा। प्रसक्तकुहर आरब्धसुरतः । 'कुहरं सुषिरे दम्भे नागलोके रतेऽपि च'
 
[^१]G. 'हर्म्याङ्गणगताया: '.
[^२]G. 'प्रसक्तकुहर:'.
[^३]G. 'प्रहसिताया: '.