2023-06-14 15:23:12 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
चातिवैचक्षण्यान्मया समसृज्यत । तत्संबन्धाच्च वस्त्राभरण-
प्रेषणादिना तद्भार्यां प्रतिदिनमन्ववर्ते । तदसावशङ्किष्ट [^१]निर्कृष्टाशयः कितवः । तेन च कुपितेन हृतं तच्चर्मरत्नमाभरणसमुद्गकश्च तस्याः । स तु भूयः स्तेयाय भ्रमन्नगृह्यत नागरिकपुरुषैः । आपन्नेन चामुनानुसृत्य रुदत्यै रागमञ्जरी [^२]परिचारिकायै पूर्वप्रणयानुवर्तिना तद्भाण्डनिधानोद्दे -शः कथितः । ममापि चर्मरत्नमुपायोपक्रान्तो यदि प्रयच्छेदिह देवपादैः प्रसादः कार्यः' इति । तथा 'निवेदितश्च नरपतिरसुभिर्मामवियोज्योपच्छन्दनैरेव स्वं ते दापयितुं प्रयतिष्यते । तन्नः पथ्यम्' इति । श्रुत्वैव च त्वदनुभावप्रत्ययादनतित्रस्नुना तेन तत्तथैव संपादितम् । अथाहं त्वदभिज्ञानप्रत्यायिताया रागमञ्जर्याः सकाशाद्यथेप्सितानि [^३]वसूनि लभमाना राजदुहितुरम्बालिकाया धात्रीं माङ्गलिकां त्वदादिष्टेन
पदचन्द्रिका ।
रागमञ्जर्याः । समुद्रगकः संपुटकः । तथैवामरः । सोऽक्षनिपुणः । स्तेयाय चौर्याय । नागरिकपुरुषैः । कारापतिपुरुषैरित्यर्थः । आपन्नेनापत्प्राप्तेन । रुदत्यै रोदनपरायै । तस्या यद्भाण्डं भूषणम् । 'भाण्डं भूषणमात्रेऽपि भाण्डं मूलवणिग्धने । नदीमात्रे तुरङ्गाणां भूषणे भाजनेऽपि च' इति विश्वः । तस्य निधानोद्देशः
स्थापनप्रदेशः । उपायैरुपक्रान्तो वशीकृतः । 'उपक्रमो वशीकारे समारम्भे चिकित्सने' इति वैजयन्ती । उपच्छन्दनैः उपसान्त्वनैः । 'सान्त्वनोपच्छन्दने च समावनुनयेऽपि च' इति केशवः । स्वं चर्मरत्नम् । ते तुभ्यम् । नोऽस्माकम् । पथ्यमनुगुणम् । त्वदनुभाव प्रत्ययात्त्वत्प्रभावज्ञानात् । अनतित्रस्नुना अतिशयितत्रासरहितेन । 'त्रसिगृधि–' (३।१।१४०) इति क्नुप्रत्ययः । तेन धनमित्रेण । अथेति
भूषणा ।
द्गकः संपुटकः । एवमेवामरः । उपक्रान्तो वशीकृतः । 'उपक्रमो वशीकारे समारम्भे चिकित्सने' इति वैजयन्ती ।उपच्छन्दनमुपसान्त्वनम् । 'सान्त्वनोपच्छन्दने च समावनुनये' इति केशवः । अनुभावप्रत्ययात्प्रभावज्ञानात् ।
लघुदीपिका ।
द्गकः संपुटकः । उपक्रान्तो वशीकृतः । 'उपक्रमो वशीकारे समारम्भे चिकित्सने' इति वैजयन्ती । उपच्छन्दतमुपसान्त्वनम् ॥ 'सान्त्वनोपच्छन्दने च समावनुनयेऽपि च' इति केशवः । अनुभावप्रत्ययात्प्रभावज्ञानात् । प्रत्या-
[^१]G. 'निकृष्टाशयतया'.
[^२]G. 'परिचारिकायै शृगालिकायै'.
[^३]G. 'वस्तूनि'.
प्रेषणादिना तद्भार्यां प्रतिदिनमन्ववर्ते । तदसावशङ्किष्ट [^१]निर्कृष्टाशयः कितवः । तेन च कुपितेन हृतं तच्चर्मरत्नमाभरणसमुद्गकश्च तस्याः । स तु भूयः स्तेयाय भ्रमन्नगृह्यत नागरिकपुरुषैः । आपन्नेन चामुनानुसृत्य रुदत्यै रागमञ्जरी [^२]परिचारिकायै पूर्वप्रणयानुवर्तिना तद्भाण्डनिधानोद्दे -शः कथितः । ममापि चर्मरत्नमुपायोपक्रान्तो यदि प्रयच्छेदिह देवपादैः प्रसादः कार्यः' इति । तथा 'निवेदितश्च नरपतिरसुभिर्मामवियोज्योपच्छन्दनैरेव स्वं ते दापयितुं प्रयतिष्यते । तन्नः पथ्यम्' इति । श्रुत्वैव च त्वदनुभावप्रत्ययादनतित्रस्नुना तेन तत्तथैव संपादितम् । अथाहं त्वदभिज्ञानप्रत्यायिताया रागमञ्जर्याः सकाशाद्यथेप्सितानि [^३]वसूनि लभमाना राजदुहितुरम्बालिकाया धात्रीं माङ्गलिकां त्वदादिष्टेन
पदचन्द्रिका ।
रागमञ्जर्याः । समुद्